पृष्ठम्:न्यायलीलावती.djvu/७०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यायलीलावतकण्ठाभरण- सविवृतिप्रकाशो ज्ञालिता अर्थस्व , व्यवहारात् वाचकतानियमवत् पूर्वानुभवापेक्षतयैव वा विषय- प्रतिनियमात् इच्छादिवत् । न चैवमज्ञानत्वापत्तिः भावप्रत्यासत्तेरविरोधात् । न हि ज्ञानस्यार्थे (न) प्रत्यासच्यन्तरम- स्ति || न चेच्छाया अपि ज्ञानत्वम् इच्छात्वस्यानुभवसिद्ध 9 . न्यायलीलावतीकण्ठाभरणम् दव्याख्यातमितरतू | स्मृतेरप्रमात्वे दुषस्यन्तरमाह पूर्वेत || स्मृतिर्न प्रमितिर्विषयसम्बन्धे परतन्त्रत्वादिच्छावदित्यर्थः । तच्छावदेवा. स्यार्थज्ञानत्वमपि साध्यमित्यत आह अर्येति । अर्थस्वभावप्रयासत्ति. शुन्यत्वमत्रोपाधिरित्याह अर्थेति । नचेति । स्वभावप्रत्यासत्तेस्तत्रापि सरवादित्यर्थः । यद्यपि तत्र ज्ञानं प्रत्यासत्तिः स्मृतौ चानुभवस्य वि रातीतत्वेन न प्रत्यासत्तित्व तथापि विलक्षणमनुभवावशेषमाह इच्छात्वस्यति । इच्छात्वेनैव ज्ञानवैधर्म्यविषयप्रवणत्वं ज्ञानत्वं व्यभि चार्येवेत्यर्थः । यद्यन्याधीना विषयप्रवणता स्मृतेरिति स्मृतिर्ज्ञानं न्यायलीलावतीप्रकाशः दभियुक्ताः- अक्षचरणादयः । स्मृतेरप्रमावे युक्त्यन्तरमाह पूर्वानुभवे- ति । स्मृतेः पूर्वानुभवेन सदैकविषयत्वनियमादित्यर्थः । तथा च स्मृतित्वं न प्रमावृत्ति कारणीभूतज्ञानविषयविषयकमात्रवृत्तिजाति. त्वात इच्छात्ववदिति भावः । नचवमिति । पूर्वानुभवापेक्षविषयप्रति नियमे सतीत्यर्थः । नन्विच्छाया अध्यर्थेन प्रत्यासत्यन्तराभावात् स्वभावप्रत्यासत्तिरस्तीति सापि ज्ञानं स्यादित्यत आह न चेच्छाया इति । इच्छाया: इच्छामीत्यबाधितानुभवान्न जाना मीत्यतोऽर्थप्रत्यास त्तिसरखेऽपि न ज्ञानस्वमत इच्छायनान्यत्वे सत्यर्थप्रवणत्वस्य ज्ञान लक्षणत्वात् तच्च स्मृतावप्धस्तीत्यर्थः । ननु प्रमाणान्तराधीनविषय- न्यायलीलावतीप्रकाशविवृतिः गादित्यपि द्रष्टव्यम् । तदभियुक्ता इन्द्रपाणिन्यादय इति क्वचित्पाठः । स चात हुण संविज्ञानबहुवीहिणा अक्षचरणादिपरस्तेनोत्तर मुलाविरोधः। वाचकतानियमवदिति मुले पदान्तरस्येति शेषः । नन्वेवमिच्छात्व- स्वीकारेऽपि न ज्ञानत्वव्यतिरेक इत्यत आह न जानामीति । एवं स. त्यर्थप्रवणत्वं ज्ञानलक्षणमतिप्रसक मेवेत्यत आह अत इच्छेति । एवं ७९ न्या०