त्वेन विषयप्रवणताया ज्ञानत्वव्यभिचारात् । न चैवमध्यक्षादौ,
अध्यक्षस्थेन्द्रिय समिधानाद्विषयनियमात् । लिङ्गस्य स्वविषयप्रतिबन्धेन वाक्यस्यायोग्यतादिना आभासस्यापि दोषहेतुत्वादिति । तत्ता चानीतज्ञान वैशिष्टयगतीत समयावच्छेदो
वा, स चानुभवोत्तरकाळमवयासत एव । नच तदित्युल्लेखः ।
न्यायलीलावतीकण्ठाभरणम्
न स्यात्, तदा विशिष्टज्ञानमात्रे ज्ञानत्वनिवृत्तिः विशिघ्रज्ञानानां सर्वेषामपि परापेक्षयैव सविषयत्वादित्याह नचैवमिति । परापेक्षामेवाह अध्यक्षस्येति । गूर्व दोषं परिहरन्नाह -स चेति । स चेत्युभयस्थापि परामर्षः, तथाच यत्रानुभवोऽनुव्यवसीयते यत्र वा अतीतसमया वच्छेदो ज्ञानान्तरेण गृह्यते तत्रैव स्मृतौ तत्तोल्लेखः, यत्र तु तथा न, न तत्र अदुष्टतत्तांशा स्मृतिरित्यर्थः । नन्वेवं पूर्वानुभवविशिष्टो घटोऽनुभूतो ज्ञातो वा घट इत्यत्रापि तत्तोल्लेख: स्यादित्यत आह नच तदि-
न्यायलीलावतीप्रकाशः
प्रतिनियमे विशिष्टज्ञानान्तरेऽपि प्रमात्वं न स्यादित्यत आह नचैवमिति । तत्तल्लक्षणे पूर्वानुपपत्ति परिहरति सचेति । अनुभवानन्तरंज्ञानान्तरेणातीतज्ञानादेवौशष्ट्यं यत्र भासते तत्रैव स्मृतौ तत्तोल्लेखो नान्यथा, तथाचानुभूततत्तागोचरैव स्मृतिरित्यर्थः । नन्वेवं द्वितीयानुभवे तदित्युल्लेखः स्यादित्यत्र आह न च तदितीति । नन्वेवमतीनध र्मवैशिष्ट्यानुमितौ तत्तोल्लेखापत्तिः, अतीतज्ञानवैशिष्ट्यं यदि तत्ता, तदा चाक्षुषि न स्यात् । अथ तत्तेदन्ते स्मृत्यनुभवभासिन्यौ अखण्डएवोपाधी क्लृप्तधर्मातिरेकिणौ, एवंवेचेदन्तासंस्कारणेदन्तैव तत्तया स्मर्यते । न च तत्तायाः क्वचिदव्यनारोपे कथमारोप इति वाच्यम् । प्र-
न्यायलीलावतीप्रकाशविवृतिः
धर्मेऽज्ञान समय वैशिष्ट्यरूपजात्यादिवृत्तितया जातित्वं न सम्भक्तीत्यत आह उपाधीति । एवञ्चदन्तति । तत्तात्वस्य प्रत्यभिज्ञाने अनुभूतत्वान पूर्वानुभूता इदन्तैव तत्तात्वन स्मरणविषय इति कलव्यते, तत्तात्वं च यद्यपि न जनर्काभूतानुभवविषयस्तथापि दोषवशादेव भासते, दोषश्च संस्कार एव उपनाय कञ्चा पूर्वानुभवजन्य संस्कार एवेति भावः ।