सर्वपर्यायावच्छेदस्य नियमेनानाकलनात् । अनुभूतदिवसादि-
न्यायलीलावतीप्रकाशः
त्यभिज्ञायां तत्तांशे यथार्थत्वात् इवम्तानुल्लेख्य नुभव प्रभवस्मृतावपि धर्मान्तरमेव तत्तवा भासते, अत एवायं घट इति न स्मरणमतः सर्वा स्मृतिरयथार्थेति । तन्न । स्मृते: पूर्वमिदन्तोपस्थितिं विना तत्तारोपासंभवात् । उच्यते । अनुभवे कालो धर्मान्तरं वा प्रमाणत्वेन यो विषयः स एव स्मृतेः स्मृत्यनुभवयोरेकविषयत्वेऽपि तत्र स्मृतौ तच्छ्ब्दप्रयोगः संस्कारजज्ञानस्यैव तच्छब्दप्रयोगहेतुत्वात् । अत एव प्रत्यभिज्ञायां तच्छन्दप्रयोगः, प्रत्यक्षानुभवे च तत्रैवेदंशब्दप्रयोगः, न तु विषयकृतः स्मृत्यनुभवयोर्विशेषः, अत एवायं घट इत्यनुभवा दयं घट इति न स्मृतिः स घट इति स्मृतिकारणं, ल घट इति नानुभवः । अन्ये तु अतीतधर्मवैशिष्ट्यं तत्तासजातीतो धर्मः क्कचित् ज्ञ नं क्कचिदतीतः समय एव अतीतधर्मविशिष्टः स इति सहप्रयोगश्च धर्मविशेषमादाय द्रष्टव्य इत्याहुः । सर्वपर्यायेति । न च प्रत्यभिज्ञानभिन्ना-
न्यायलीलावती प्रकाशविवृतिः
नन्वेवं यत्र घट इत्येव स्मरणं तत्र कथं तत्ताविशिष्टस्मरणमित्यत आह इदन्तानुल्लेखीति । सर्वा स्मृतिरिति । प्रमुष्टतन्त्तांशा च स्मृतिरसिद्धैबेति भावः । स्मृतेरिति । आरोपविषयज्ञानस्यारोपहेतुत्वादिति भावः । संस्कारजज्ञानस्यैवेति । न च यन्मते प्रत्याभज्ञा स्मृतिजन्यैव तन्मते प्रत्यभिज्ञायामव्यापकमिदम्, प्रयोजकत्वविवक्षायां तु रजतस्मृतिजन्यरजतभ्रमातिव्यापकमिति वाच्यम् । तत्रैतस्य सत्त्वेऽपि प्रमुष्टतत्ताकस्मरण इव दोषादेव तत्तानुल्लेखात् । केचित्तु यज्जातीय संस्कारप्रयोज्यं तत्र तत्तोल्लेखः, भ्रमजातीयं तु न तथा अनुभूयमानारोपे व्यभिचारादिति वदन्ति । अयं घट इति इदंशब्दोल्लेखिनी न स्मृतिरित्यर्थः । स घट इति न तच्छब्दोल्लेख्यनुभव इत्यर्थः । क्वचिज्ज्ञानमिति । नच चाक्षुषत्वानुपपत्तिरुपनीतस्य तथात्वाविरोधात्, अनुमितौ च संस्काराजन्यत्वादेव न तदुल्लेखः पूर्वकल्पवदिति भावः । धर्मविशेषमादायेति । कश्चनाततिधर्मपदेन कश्चन तत्पदेन तत्रोच्यते इति भावः । इदन्तातत्तयोरभेदे प्रतिकूलतर्कमाह न च प्रत्यभिज्ञानभिन्नति | प्रत्यभिज्ञानस्मृतिवृत्ति तयेष्टापत्तिनिरासाय भिन्नान्ताप्यनुभवत्वगर्भा ।