रूपकालभेदो वा स्मृतिगोचरः । तस्य च वृत्ततामिदानीमन्यतोऽनुसंधाय तदिति तद्वाचकोल्लेखी व्यवहार इति । इति स्मृतिः ॥
आर्ष च ज्ञानं ऋषीणाम्, कन्यायाश्च यथा श्वो मे भ्राता आगन्तेति । न चैतदध्यक्षम्, कारणाभावात् । न च मनस्तथा । तस्य बहिरप्रवृत्तेः अनुमानविलयाच्च । न चैतन्नयनस्पन्दादिलिङ्गकम्, तेषां व्यभिचारात । न च धूमादिवदवान्तरजा-
न्यायलीलावतकिण्ठाभरणम्
ति । कोचत्तु नन्वेवं द्वितीयानुभवे तत्तोल्लेखः स्यादित्यतोषमाहुः ।
चतुर्थी विद्यामाह आर्षमिति । कारणाभावादिति । इन्द्रिय सन्निकर्षाभावादित्यर्थः । अनुमानेति । अनुमितिरप्येवं मानसी स्यादित्यर्थः । ननु नयनस्पन्दमात्रस्य व्यभिचारेऽपि तद्विशेषो लिङ्गं भवेदित्यत आह नचेति । ननु यस्यां कोटौ भूयः सहचारस्तन्मात्रकोटिकः संशय एवायं
न्यायलीलावतीप्रकाशः
नुभवत्वं यदि तत्ताविषयकवृत्ति स्यात्तत्ताप्रयोगजनकवृत्ति स्यादिति वाच्यम् । संस्कारजन्यवृत्तित्व [१] स्योपाधित्वात् । तस्य चेति । अती तदिवसायवच्छेदस्येत्यर्थः । अन्यत इति । तत्तानुमितौ हि सत्यां या स्मृतिर्जायते तस्य तत्तानुव्यवसायो न सर्वत्रेत्यर्थः ।
कारणेति । इन्द्रिय सन्निकर्षाद्यभावादित्यर्थः । तथा कारणमित्यर्थः । बहिरिति । निरपेक्षस्य बहिर्विषयकज्ञानाजनकत्वादित्यर्थः । अनुमानेति । अनुमितेरपि मानसाध्यक्षरूपतया तद्धिन्नत्वानुपपत्तेरित्यर्थः । अवान्तरेति । व्यभिचारिव्यावृत्तं नेत्रप्रस्पन्दादिवृत्तीत्यर्थः ।
न्यायलीलावतीप्रकाशविश्वृतिः
नच प्रयोगजनकत्वं फलोपाधानमेव वाच्यमन्यथेष्टापत्तिरिति शब्दप्रयोगाजनकस्मृतिविशेषमात्रधर्मे व्यभिचार इति वाच्यम् । शब्दप्र योगजनकत्वेनापादकविशेषणात् । संस्कारजत्वस्येति । तथाच विषयसाम्यमप्रयोजकं कारणविशेषजन्यत्वस्य प्रयोजकत्वादिति भावः । अनुमिताविति । तत्र च संस्काराजन्यत्वादेव न तत्तोल्लेख इति भावः । तत्तानुव्यवसायः - तत्तोल्लेखः ।
- ↑ अत्र विवृत्तिकारमतेन संस्कारजत्वस्येति पाठो बोध्यः ।