तिभेदावलम्बनम्, तदप्रतिसन्धानेऽपि जायमानत्वात् । न चैतत्संभावनात्मकम् कोटियानुल्लेखात् । न च भूयःसहचरितधर्मदर्शनजन्मैष न्यूनैककोटि: संशयः, आगमिष्यत्येवेति निश्रयाकारेण जायमानत्वात् अनुमानवत्, अन्यथा तस्याप्येवंवित्रसंशयतापत्तेः । यथा वा स्वेच्छा स्मृतपदार्थसार्थे भवति
शालिवाहनो नृपतिरिदानीं शृङ्गारसरसीतीरे देव्या लीलावत्या
सह ललितमधुरं सङ्गीतक मनुतिष्ठतीति ज्ञानम् । न चैष विपर्ययः,
संवादात् । नन्विदमपरोक्षत्वेऽध्यक्षमन्यथानुमानमिति चेन्न ।
परोक्षत्वेऽपि लिङ्गानपेक्षत्वात् [१] । लिङ्गानपेक्षमपि अनुमानमिन्द्रियानपेक्ष पारमेश्वर प्रत्यक्षवदिति चेन्न । अपरोक्षत्वस्य प्रत्य
न्यायलीलावतीकण्ठाभरणम्
स्यादित्यत आह नच भूय इति । कालविप्रकर्षेणार्षमुदाहृत्य देशविप्रकर्षेण उदाहरति यथावेति । नन्विदमिति । परोक्षत्वापरोक्षात्वाभ्यां प्रकारासम्भवादित्यर्थः । अपरोक्षत्वस्येति । साक्षात्वमपरोक्षत्वं तदस्मदादीनामिन्द्रियजन्यत्वव्यङ्गघमीश्वरज्ञाने च धर्म्मिग्राहकमानसिद्धमित्यर्थः ।
न्यायलीलावतीप्रकाशः
न च भूय इति । भूयसा एककोटिरूपेण स्थाण्वादिना सहचरितो धर्मः ऊर्ध्वत्वादिस्तज्ज्ञानजन्यत्वेन न्यूनैककोटिक एवायं संशय इति नेत्यर्थः । आर्षज्ञानोदाहरणान्तरमाह यथावेति । अन्यथा परोक्षत्व इत्यर्थः । लिङ्गानपेक्षणादिति । अनुमितेश्च लिङ्गज्ञानजन्यत्वादित्यर्थः । अपरोक्षत्वस्येति । अपरोक्षत्वं नेन्द्रियजम्यत्वं, येतेश्वर प्रत्यक्षाव्याप्तिरपि तु जातिविशेषः, स चेश्वरज्ञाने धर्मिग्राहक मानसिद्ध इत्यर्थः । ननु प-
न्यायलीलावती प्रकाशविवृतिः
भूयसेति । स्थाणुत्वादिना भूयःसहचरितो यो धर्म ऊर्ध्वत्वादिस्तज्ज्ञानाद्यथोत्कटकोटिकः संशयस्तद्वदयमपि न्यूनैककोटिक इत्यर्थः ।
- ↑ नपेक्षणादिति प्रकाशाभिमतः पाठः ।