पृष्ठम्:न्यायलीलावती.djvu/७०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३०
न्यायलीलावती


क्षत्यात् । नच [] परोक्षत्वमनुपात्वम् , शब्दादेरुच्छेद पत्तेः । अपरोक्षमेव चार्वज्ञानम्, न तु तत् प्रत्यक्षम्, अनिन्द्रियकरणकस्वात् । न चेश्वरज्ञानस्य प्रत्यक्षममात्वविरोधः, प्रत्यक्षप्रमातुल्यतयाऽपरोक्षत्वेन तत्र प्रत्यक्षव्यवहारात् । आर्षेऽपि तत एव


न्यायलीलावतीकण्ठाभरणम्

शब्दादेरिति । त्वन्मत इति शेषः । अपरोक्षत्वेऽपि न तत्प्रत्यक्षत्वमित्याह अपरोक्षमेवेति । प्रत्यक्षप्रमातुल्यता लिङ्गाद्यजन्यत्वं, तर्हि लिङ्गाद्यजन्यत्वेनार्षमपि प्रत्यक्षत्वेन व्यवहियतामित्यत आह आर्षपीति ।

न्यायलीलावतोप्रकाशः

रोक्षत्वेनानुमालान्तर्भावोऽपि भवत्वित्यत आह नच परोक्षत्वमिति । शब्दादेरिति । त्वन्मते इति शेषः । अतद्गुण संविज्ञानवहुव्रीहिणा स्मृत्यादिविवक्षित इत्यन्ये । परोक्षत्वापरोक्षत्वे विहाय तृतीयकोटेरभावादार्ष ज्ञानं कान्तर्भवतीत्यपेक्षायामाह अपरोक्षमेवेति । अपरोक्षत्वं जातिः, सा चार्षप्रत्यक्षे वर्त्तत इत्यर्थः । तर्हि प्रत्यक्षमेव तदस्त्वित्यत आह नत्विति । प्रत्यक्षत्वव्यञ्जकेन्द्रियकरणकत्वासावादित्यर्थः । प्रत्यक्षप्रमातुल्यतयेत्यभ्युपगमवादः । वस्तुतस्तु तदपि प्रत्यक्षम् । प्रत्यक्षत्वं हि जातिः क्वचिश्चक्षुःकरणकत्वादिव्यंग्या, कचिद्धर्मिग्राहकमानसिद्धा अननुगतस्य सास्नादेरिव व्यञ्जकत्वाविरोधाल्, प्रत्युताऽनुगतस्य व्यञ्जकत्वे जातिरेव न सिध्घेत् तत एव तदर्थसिद्धेः । आर्षस्योदाहरणं यथा पाणौ पञ्चवराटकान् पिधाय कश्चित्कंचित्पृच्छति कति वराटका इति । पृष्टश्चाजाकृपाणयन्यायेन ब्रवीति पश्चेति । तस्य यथार्थ त्वेऽपि प्रत्यक्षदावनन्तर्भावात् । एवं सति द्वे एव माने इति वैशेषि-

न्यायलीलावतप्रिकाशविवृतिः

अतद्गुणेत्यादौ स्मृत्यादीत्यादिपदेनानुमानाभाससङ्ग्रहः, प्रमाणापरत्वादनुमानपदस्येति ध्येयम् । क्कान्तर्भवतीति । यद्यपि परोक्षेऽपीत्यादिना परोक्षाभावदर्शनान्नेयमाशङ्का, तथापि मतान्तरमाहेत्यत्र तात्पर्यमतएव वाशब्दोऽपि सङ्गच्छते । वस्तुतस्तदपीति । नचैवमीश्वरज्ञानवदार्षेऽपि प्रत्यक्षत्वं जातिरस्त्विति वाच्यम् । इन्द्रियकरणकत्वस्य धर्मि-


  1. नतु इति प्रा० पु० पाठः ।