पृष्ठम्:न्यायलीलावती.djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावती



प्रीत्या ततः परमनिर्वृतिमादधाति ।
तस्मै नमः सहजदीर्घकृपानुवन्ध-
लब्धत्रितत्त्वतनवे पुरुषोत्तमाय ॥ १ ॥

न्यायलीलावतीकण्ठाभरणम्

भावात् समासः जातिगुणक्रियाभिरेकदेशपृथक्करणस्य निर्धारणस्थाविवक्षितत्वात् । निर्धारणाविवक्षायामेव सप्तमीतत्पुरुषो वा । उत्तमत्वमेव पुरुषत्वेन विशेषणीयमेवेति कर्मधारयो वा। यस्मात् क्षरमतातोऽहमित्यादिगीतापद्यं पञ्चमीतत्पुरुषव्यवस्थापकत्वेनोक्तमनादेयं तदर्थासमपर्कत्वात् । अनेन हेतुनाऽहं पुरुषोत्तमोस्मीत्येतावन्मात्रस्य तदर्थत्वात् । यः कार्याजातरूपं जगत् सृजति सृष्टा चावति परिपालयति । एकस्मिन् पुत्रे या प्रीतिस्तयाऽवतीति सम्बन्धः । जगत्पदस्य संसारिमात्रविवक्षायामाह-परमेति । निर्वृतिः सुखं दुःखाभावश्च । तत्राद्यस्य परमत्वं दुःखासम्भिन्नत्वं अन्त्यस्य दु:खप्रागभावासहवृत्तित्वम् । कृपा निरुपधिपरदुःखप्रहाणेच्छा तस्याः सहजत्वमनागन्तुकत्वमनुत्पन्नत्वमिति यावत् । दीर्घत्वमविनाशित्वं कृपाया अनुबन्धः सृष्टिस्थितिसंहारसहकारिणां पौनःपुन्येन समवधानम, तेन लब्धास्त्रितत्त्वरुपास्तनवो ब्रह्मविष्णुशिवात्मिका येन तस्मै । ग्रन्थकृता स्वपित्रे पुरुषोत्तमनाम्ने नतिः कृतेत्यपि वदन्ति ।

न्यायलीलावतीप्रकाशः

रण इति षष्ठीसमासनिषेधः स्यात् , पुरुषश्चाऽसावुत्तमश्चेति कर्म-

न्यायलीलावतीप्रकाशविवृतिः

ने रूढ्यर्थविरोधे वा केवलरूढिस्वीकार इह तु न तथेत्याशयेन नम. स्यताप्रयोजकरूपलाभानुरोधेन च योगपुरस्कारमभ्युपेत्य विकल्पो. ऽयं कृत इति ध्येयम् । पुरुषश्चासाविति । ननु विशेषणविशेष्यभावस्य कामचारादिदमयुक्तम् । न च विशेष्यतावच्छेदकावच्छिन्नमध्ये व्यावृत्तिबोधकंविशेषणं न चेह पुरुषत्वं तथा सर्वज्ञत्वादिरूपोत्तमत्वव्यापकत्वादिति वाच्यम् । उत्तमपदस्योत्कर्षवत्ववाचकत्वात् तस्य च घटादिसाधारण्येन पुरुषत्वाव्याप्यत्वादन्यथा परस्परव्यभिचाराभावेन कर्मधारयानुपपत्तेः । विशेषणं विशेष्येनेतिसुत्रेऽन्यतरपदेनैवापरसम्बन्धि. लाभे यदुभयपदोपादानं तेन परस्परव्यभिचार एव कर्म्मधारयसाधुत्वमितिज्ञापनात् । न चोत्कषवत्त्वं न घटादिसाधारणमेकमिति श.