प्रत्यक्षव्यवहारोपपत्ति [१] रिति चेत् । न, सतो झुपचारस्य निमित्तकल्पनम् नतूपचारनिमित्ते सति सर्वत्रोपचारप्रवृत्तिः । आर्षस्य
प्रमाणान्तरत्वे प्रत्यक्षानुमाने एव प्रमाणमिति त्ववधारणं लौकिकममाणापेक्षयेति सर्व [२] सुस्थम् । इस्पार्षम् ॥ इति बुद्धिः ॥
ननु गुरुत्वं न [३] तावत्प्रत्यक्षम् ऊर्ध्वदेशकर स्पर्शेना-
न्यायलीलावतीकण्ठाभरणम्
ईश्वरज्ञाने प्रत्यक्षत्वेनोपचारोऽस्ति तत्र च लिङ्गाद्यजन्यत्वं निमित्तं कल्पयितुमुचितम्, आर्षे तूपचार एच नास्तीत्यर्थः । एवंसति विभागं समर्थयात आर्षस्येति । लौकिकप्रमाणापेक्षयेत्यर्थ इति । इदमुत्प्रेक्षा. सहकृत मनोजन्ययोगजधर्मानुगृहीत मनोजन्ययोगिज्ञानवदलौकिकज्ञा नमित्यर्थः । एवं मुद्रिते पाणौ काकतालीयसंवादिपञ्चवराटिकादिज्ञा नमार्ष वेदितव्यम् ।
प्रमाणाभावाद् गुरुत्वमेव नास्तीत्याह न भवेदिति । प्रत्यक्षं स्पार्शनं
न्यायलीलावतीप्रकाशः
कस्मृतिमुपपादयति आर्षस्येति । लौकिकेति । यत्प्रमाणं विषयसम्बन्धं सत् प्रमाजनकं तल्लौकिकम्, सम्बन्धश्च क्वचिच्छोढेन्द्रियप्रत्यासत्तिः, क्वचिच्च व्याप्त्यादिः, आर्षन्तु विषयाप्रत्यासन्नमनोजन्यमित्यलौकिक- मित्यर्थः ।
न प्रत्यक्षमिति । न स्पार्शनप्रत्यक्षमित्यर्थः । इतरेषामसम्भावितत्वा-
न्यायलीलावतीप्रकाशचिवृतिः
ग्राहकस्य वा तद्यञ्जकल्याभावात् । षोढेति । इदमुपलक्षणं, सामान्यप्रत्यासत्तिरपि द्रष्टव्या । न च सामान्यप्रत्यासच्या लौकिकत्वस्वीकारेऽपसिद्धान्तः, उक्तपरिभाषया तथात्वाविरोधात् । अत एवानुमानस्यापि त थात्वमविरुद्धम्, ज्ञानं तु प्रत्यासत्तिरेतन्मते नास्त्येव, यथावा स्वेच्छा स्मृतेत्यादिना तत्स्थाने आर्षप्रमाणाभ्युपगमादिति मन्तव्यम् । इदं च सर्व योगजधर्मज्ञानयोः प्रत्यासत्तित्वानभ्युपगमे, वस्तुतस्ते अपि प्रत्यासत्ती एव । पाणौ पञ्च वराटकानित्यादि स्थलेऽपि तथैवेति मन्तव्यम् । इति बुद्धिः ॥