क्तरूप
ग्रहात् । अधोदेश [१] स्पर्शातहणमिति चेन्न । अवनतिं
प्रत्यहेतूनां तृणादीनां अधःस्पर्शेऽपि गुरुत्वाग्रहात्, स्पर्शव्यतिरिक्त्तस्य च स्पर्शनेन्द्रिय प्रत्यक्षगुगस्य
चाक्षुषतानियमोपलब्धे: । स्पर्शनेन्द्रियग्राह्यस्य चोध्वनस्पर्शप्रत्यक्षतानियमोपलब्धेः । अस्तु तर्हि पतनानुमेयमिति चेन्न । अदृष्टत [२] त्क्षेत्रज्ञसंयोगादेव पतनोपपत्तेः । अदृष्टहेतुकत्वे पतननियमो न स्यादिति
चेत् । न । दहनोर्ध्वज्वलनवदुपपत्ते: । अन्यथा तत्राप्युगमनहेतोर्लघुत्वस्य कल्पनापत्तेः । अदृष्टहेतुकत्वे उर्ध्वज्वलनवद्यावदाश्रयं पतनमनुवर्तेतेति चेन्न । अदृष्टहेतुपरमाणुकर्मणां यावदा
न्यायलीलावतीकण्टाभरणम्
वाच्यं तच्चोर्ध्वावच्छेदेन नास्ति नास्त्येवेत्यर्थः । अधोदेशादिति । तथैवानुभवादिति भावः । अवनतिं प्रत्यहेतूनामिति तृणादिगुरुत्वेऽनुमानमपि नास्तीति द्योतनाय | किञ्च यदि गुरुत्वं स्पर्शान्यत्वे सति स्पार्शनप्रत्यक्षं स्यात् गुणजातीयं स्यात चाक्षुषप्रत्यक्षं स्यादित्याह- स्पर्शव्यतिरिक्तेति । तथाच त्वङ्मात्रगृहीत नष्टे परिमाणादौ व्यभिचारः । पतन नियम इति । अधःसंयोगजनननियम इत्यर्थः । अदृष्टंहतुकत्व इति । अदृष्टहेतुक्रियात्व इत्यर्थः । अत्र व्यभिचारमाह अदृष्टेति ।
न्यायलीलावतीप्रकाशः
त् । स्पर्शनेन्द्रियप्रत्यक्षगुणस्येति । स्पर्शनेन्द्रिय प्रत्यक्षगुणजातीयस्येत्यर्थः । तेन स्पर्शनेन्द्रियमात्रगृहीते पटपरिमाणे न व्यभिचारः । स्पर्श नेन्द्रियेति । संख्यादौ तथा सहचारादित्यर्थ: । ननु पतनासमवायि कारणत्वेन गुरुत्वमनुमेयम् अन्यस्य तथात्वा सम्भवादित्याह अस्तिवति । अदृष्टतदिति । दहनादिक्रियायां तत्कल्पनादित्यर्थः । पतननियम इति । भूम्यादाविवान्यत्रापि पतनं स्यात् त्र्प्रसमवायिकारणसमवधानावि शेषादित्यर्थः । अन्यथेति । यद्यदृष्टवदात्मसंयोगस्य साधारण्येनान्यद
न्यायलीलावतीप्रकाशविक्ष्वृति
गुणजातीयस्येति । यद्यत्येवमपि घटपरिमाणे व्यभिचार एव, तथापि