श्रयमनुवृत्ते: ।
नम्वदृष्टवदात्मसंयोगस्य पतन हेतुत्वे गुरुत्वतारतम्याभावात् पतने चिरक्षिमतारतम्यविरोधात् । न चातिरिक्तक्षित्यादिप्रवेशात्तदिति वाच्यम् । तेजःप्रवेशेऽपि प्रसङ्गात् । तेजो न गुर्विति चेत् | तुन्यम् शित्यादौ गुरुत्वा स्वीकारात् । पतनानुकुळवेगतारतम्येनैव पतनतारतम्य सन्तानस्य चिरक्षिप्रतोपपत्तेः । तथाभूतवेगजनकपतनोत्पत्तौ तर्हि किं कारणम् ? अदृष्टवदात्मसंयोगो विशिष्टवेगोत्पादक पवनचलनकर्मवत् । [१]भुगतकर्म- विशेषोत्पत्तिरदृष्टेतर कारणविशेषजन्या शरीरादिषु दृष्टेति चेन्न ।
न्यायलीलावती कण्ठाभरणम्
ननु गुरुत्वतारतम्याधीनं मृत्पाषाणादौ पतनतारतम्यं तदभवे न स्यादित्याह नन्विति । नन्वदृष्टवदात्मसंयोगाविशेषेऽपि यत्र द्रव्यान्त रानुप्रवेशस्त त्राधिकं पतनमित्याह न चेति । तुल्यतामेव दर्शयनि क्षित्यादाविति । तेजोवत् क्षितावपि न गुरुत्वमित्यर्थः। आद्यमेव पतनं कथं स्थादित्याह तथाभूतेति । अदृष्टवदिति । अदृष्टवदात्मसंयोगादाद्यं पतनं तज्जनि तवेगाच उत्तरोत्तरमित्यर्थः । विशिष्टवेगति । पतनतारतम्यप्रयोजकत्वमेव वेगे वैशिष्ट्यम् । नन्वधःसंयोगफलिका तालफलादिक्रिया अदृष्टवदात्मसंयोगभिन्नासमवायिकारणजन्या पार्थिवावयावकियात्वात् शरी रक्रियावदिति गुरुत्वसिद्धिं शंकते भूगतेति । विशेषपदं दृष्टान्तीकृत शरीरक्रियाभेदकं परमाणुक्रियाभेदकं वा । द्वितीयविशेषपदं समवा-
न्यायलीलावतीप्रकाशः
समवायिकारणं कल्प्यमित्यर्थः ।
वेगतारतम्येनैवेति । तस्य कारणविशेषप्रयोज्यत्वादित्यर्थः । भूगतेति । भूगतवेगजनकपतनोत्पत्तिरित्यर्थः । कारणेति । स एव गुरुत्व
न्यायलीलावती प्रकाशविवृतिः
स्पर्शव्यतिरिक्तस्पार्शन प्रत्यक्षवृत्तिजातेश्चाक्षुषप्रत्यक्षवृत्तित्वमिति नियम इति तात्पर्यम् । मूलस्थविशेषपदार्थव्याख्यानं वेगजनकपतनेति ।
- ↑ अथ भूगतेति मु० पु० पाठ! ।