पवनगतवेगा र्पक कर्मविशेषोत्पत्ताव प्यदृष्टेतर कारणापेक्षैव दृष्टा पुरुषप्रेरितप्राणादिकर्मवत् । ततः पुरुषप्रयत्नानपेक्षपत्रनादि कर्मोत्यत्तावपि गुरुत्ववल्लघुत्व मतीन्द्रियं कल्पनीयम् । रस एव गुरुत्वमस्त्विति चेत् । न । एवंसति रसनया माधुर्यानुभववद्गुरुत्वानुभवप्रसगात् । रसस्यावन तिहेतुत्वात् [१] गुरुत्वस्वभावत्वमिति
चेत् । न । रसो न पतनासमवायिकारणं बहिरिन्द्रियव्यवस्थाहेतुत्वात् रूपवत्, अन्यथा वेगप्रकर्षोद्गतितारतम्यवन्माधुर्यप्रक-
न्यायलीलावतीकण्ठाभरणम्
यिकारणभेदकम्, अन्यथा तेनैवान्यथासिद्धेः । तर्हि प्राणक्रियादृष्टान्तेन बहिःपतनक्रियां प्रत्यसमवायिकारणान्तरकल्पनापत्तिरित्याह पवनेति । नन्वनुपलम्भबाधितमेव पतनक्रियायां कारणान्तरमत आह तत इति । ननु भूजलयोरेव पतनमनुभूयते तत्र चरम एव तदसमवाविकारणं स्यादित्याह रस एवेति । गुरुत्वमिति । गुरुत्वव्यपदेश्य इत्यर्थः । रसगुरुत्वयोरभेदे दोषमाह एवंसतीति । नन्वभेदश्चेत्तदा नेदमनिष्टमिति चेद्, गुरुरियं शर्करेत्यनुभवो रसनायां स्यादित्यर्थात् । ननु रस मेव गुरुत्वं न ब्रूमः, किन्तर्हि ? गुरुत्वकार्ये रस एवाभिषिच्यतामिति ब्रूम, इत्यत आह रसस्येति । न चेदमप्रयोजकमित्याह अन्यथेति । अदृष्टहेतुत्वात् न जले पतनं पङ्कादौ पतनमिति कथं वैषम्यमित्यत्र
न्यायलीलावतीप्रकाशः
मिति भावः । पवनगतवेगेति । व्याप्तिग्राहकमानाभावश्च तुल्य एवेति भावः । रस एवेति । गुरुत्वस्यापि रसवन्मात्रवृत्तित्वादित्यर्थः । एवंसतीति | रसभिन्नगुरुत्वाभावादित्यर्थः । ननु रखस्य पतनहेतुत्वं गुरुत्वस्वभावत्वम् तच्च पतने गृह्यमाण एव सुग्रहम, पतनं च न रसनेन्द्रियग्राह्यमिति रसस्य रसनन्द्रियग्राह्यत्वेऽपि तस्य पतनहेतुत्वं न गृह्यत इति गुरुत्वं न रसनग्राह्यमित्याह रसस्येति । अन्यथेति । कारणप्रकर्षा-
न्यायलीलावती प्रकाशविवृतिः
वेगजन्यकर्मणि नोदनादिजन्यकर्माणि चांशतः सिद्धसाधनवारणाय
- ↑ हेतुत्वमिति मु० पु० पाठः ।