र्षाद्द्रक्षादिचूर्णेषु पतनप्रकर्षमसङ्गात् । गुरुस्वा विशेषेऽपि पापाणालाबुप्रभृतिषु मज्जनोन्मज्जननियमवदद्द्ष्टहेतुकता साम्येऽपि
पतनोस्पतननियमो भविष्यतीति चेतु । न । जलाधोगमनं हिमज्जनम् | जलेन च धारणं पतनप्रतिवन्धा [१] दुत्मज्जनम् । एतस्य
जलसंयोगस्य कस्यचिदेव पतनमतिबन्धे हेतुत्वात् [२]
दृष्ट हेतुकमेव मज्जनमुन्मज्जनं चेति चेत् । अत्रोच्यते । विवादाध्यासितं पतनं
स्वसमवायिकारणमात्र समवेतासमवायिकारणजन्यं पतनत्वात्,
न्यायलीलावतीकण्टाभरणम्
केषांचित् समाधानमाशंक्य निराकरोति गुरुत्वेति । मज्जनोन्मज्जनेऽपि प्रति न गुरुत्वं प्रयोजकं किन्तु जलेन द्वग्यविशेषस्य संयोग एव प्रयोजक इत्याह -- जलावोगमनमिति । विवादाध्यासितमिति । आघं पतनमित्यर्थः । द्वितीयादीनां वेगादपि सम्भवादिति भावः । अदृष्टवदात्मसंयोगव्युदासाय मात्रपदम् । पतनमवःसंयोगफलिका क्रि-
न्यायलीलावतीप्रकाशः
धीनत्वात्कार्यप्रकर्षस्येत्यर्थः । पुनरदृष्टविशेषेणान्यथोपपत्तिमाह गुरुत्वाविशेषेपीति । दृष्टान्तमात्रं परेण साधकत्वेनोपन्यस्तमिति तदेव दूष यति जलाधोगमनमिति । दृष्टहेतुकमेवेति । तथाच तद्द्दष्टान्तेन न पतनोत्पतनव्यवस्थेत्यर्थः । विवादाध्यासितमिति । आद्यं पतनमित्यर्थः । तेन द्वितीयपतनस्यापि पक्षत्वे संस्कारेण नांशतः सिद्धसाधनम् । स्वसमबायीति । स्वसमानाधिकरणैकवृत्तिगुणासमवायिकारणकमित्यर्थः ।
न्यायलीलावतप्रिकाशविवृतिः
विशेषणद्वयम् । पुनरदृष्टविशेषेणेत्यत्र पुनश्चशब्दः पूर्वव्यवच्छेदवचनः, एकदेशीति शेषः । तदेव दूषयनीति | महापूर्वपक्षीति शेषः । न तु दार्ष्टान्तिकमित्येवकारार्थः । अयं चार्थः सूले नियमो भविष्यतीत्यनन्तरं केचिदितिपाठपक्षे सुव्यक्तः, एवं चेदितिपाठपक्षे तून्नेयः । कारणपदमाशङ्कय व्याचष्टे स्वसमानाधिकरणेति । एकवृत्तिपदोपयोगमाह