वेगार्जितशरपतनवत् । न च तेजोऽधोगमनेन व्यभिचारः, तस्य
कारणगत वेग पूर्वक ते जोगत वेगजन्यत्वात् [१] । न च तेजःपरमाणोरधोगमनेन व्यभिचारः तस्यापि बीजाङ्कुरवदनादिकर्मज वेगजनितत्वात् । रसवद्रव्योगमनं [२] वा पतनम् । यदि वा
गुरुत्वस्य क्कचिदद्दष्टापेक्षत्वगिन्द्रियव्यञ्जनीयस्वेनान्यत्रानुमानप्र-
न्यायलीलावतकिण्ठाभरणम्
या इति विवक्षया व्यभिचारं शंकते नवेति । तत्रापि सत्त्वान्न व्यभिचार इत्याह तस्येति । नचेति । कारणवेगाभावादिति भावः । परमाणोरपि कर्म्मणा वेगो वेगात् पुनः कर्म्मैति साध्यसत्वान्न व्यभिचार इत्याह तस्यापीति । रसवद्द्रव्यस्येति । तथाच तेजास हेत्वभावादेव न व्यभिचार इति भावः । क्वचिदिति । स्थूलावयविनीत्यर्थः । अन्यत्र पर-
न्यायलीलावतीप्रकाशः
तेन नाडष्टवदात्मसंयोगेन सिद्धसाधनम् । वेगार्जितेति । ननु पतनं यद्यधः संयोगफलकं कर्म, तदा दृष्टान्तोऽपि गुरुत्वजन्य एवेति तदसिद्धिः, कर्ममात्रं चेत्तदा हस्तक्षितलोष्ठादि [३] कर्मणा व्यभिचारः तद्वेगस्य तिर्यग्गमनप्रयोजकतथा तज्जनकत्वादिति न वाच्यम् । अभिघातरूपसहकारिवशात्तद्वेगस्याप्यधःक्रियाजनकत्वात् । रसवद्रव्येति । तथाच तेजसि पतनमेव नास्तीति न व्यभिचार इत्यर्थः । अत्र मूर्त्तमात्रलंयोगाजन्यस्य पतनस्य विवक्षितत्वान्न पतत्पृथिव्यादिसंयोगजन्याधोगमनवत्करादिना व्यभिचारः । अनुमेयं गुरुत्वं प्रतिपाद्य प्रत्यक्षं तदिति व्युत्पादयति यदि वेति । क्वचिदिति । पृष्ठारोपि-
न्यायलीलावती प्रकाशविवृतिः
तेनेति । न तु विवक्षितार्थेनेत्यर्थो यथाश्रुतेप्येतदोषाभावादिति ।
ननु पतनमिति । पतनत्वादित्यत्रेति शेषः । तदा दृष्टान्तोपीति । तादृशकर्मण एव दृष्टान्तीकरणादन्यथा साधनवैकल्यापत्तेरिति भावः । लोष्टादिना लोष्ठादिकर्मणा, तत्र प्रयत्नवद्वस्तुसंयोगस्यासमवायिकारणतया पक्षसमत्वाभावादिति भावः ॥ दृष्टान्तस्येति (?)। उभयथापि साध्यतावच्छे-