पृष्ठम्:न्यायलीलावती.djvu/७१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


वृत्तेः । न चैवं गुरुत्वस्यातीन्द्रियत्वव्याघातः अतीन्द्रियवपि परमाण्वादि वदात्मविशेषगुणापेक्षित्वेन इन्द्रियप्रवृत्तिदर्शनात् । न चेदेवं, पृष्ठाद्यारोपितपदार्थस्य गुरुत्वानुपलम्भप्रसङ्गः, पतनाभावेनानुमानाभावात् । न चेन्द्रिय संनिकर्षव्यङ्गयं गुरुत्वम्, ऊर्ध्वस्पर्शेनानुपलम्भात् । न चाधःस्पर्शेन वेद्यत्वं, तृणादिस्पर्शे गुरुत्वस्यानुपलब्धेः । न चोद्भूतत्वे सति इन्द्रियसंनिकर्षवेधम्, गुरुत्वस्य बहिरिन्द्रियव्यवस्थां प्रत्यहेतुत्वेन संख्या दिवदुद्भुतत्वा-


न्यायलीलावतीकण्ठाभरणम्

माणुत्र्यणुकादौ तर्हि कथं गुरुत्वस्यातीन्द्रियत्वं सुत्रकृदाहेत्यत आह नचेति । अदृष्टखापेक्षत्वगिन्द्रियवेद्यत्वान्न व्याघात इत्यर्थः । अन्यथाऽनुभवविरोध इत्याह नचेदेवमिति । ननु तत्राण्यानुमानिकी तत्प्रतीतिः स्यादित्यत आह पतनेति । नन्वदृष्टनिरपेक्षेणैव त्वगिन्द्रियेण तर्हि गृह्यतामत आह नचेति । तर्हि अर्द्धावच्छेदनाप्युपलभ्येतेत्यत

न्यायलीलावतीप्रकाशः

तपाषाणादावित्यर्थः । शास्त्रविरोधं परिहरति नचैवमिति । अतीन्द्रियेष्विति । यथा ज्ञानलक्षणप्रत्यासत्या परमाणुः प्रत्यक्षः तद्वदद्दष्टसहकृतेन्द्रिय प्रत्यक्षं गुरुत्वमपीत्यर्थः । नन्वदृष्टानपेक्षेन्द्रियं संयुक्तसमवायमात्र प्रत्यासत्त्या गुरुत्वग्राहकमस्त्वित्यत आह न चेन्द्रियेति । तृणादिस्पर्शइति । तृणादीनामधःस्पर्शे सत्यपि गुरुत्वानुपलब्धेरित्यर्थः । नचेति । तृणादिगुरुत्वं चानुभूतमिति शेषः । गुरुत्वस्येति । अन्यथा महत्व एवोद्भूतत्वकल्पनायामाकाशादिमहत्त्वे तदभावात्तदप्रत्यक्षोपपत्तौ

न्यायलीलावतीप्रकाशविवृतिः

दकावच्छिन्न साध्यवरवादित्यर्थः। तथापत्यस्याधः संयोगजनककर्मत्वस्य हेतुत्वेपीत्यर्थो, न वाव्यमित्यप्रेतनेन च सम्बन्धः । करादिना - करादिनिष्ठाघोगमनेन । अन्यथा महत्त्व एवेति । यद्यध्यप्रत्यक्षे द्रव्ये महत्वानुद्भवेऽपि स्पर्शादेः प्रत्यक्षतया तत्रोद्भूतत्वमावश्यकम् तथापि रूपायुद्भवादेव प्रत्यक्षोपपत्तौ न गुरुत्वे महत्त्वे वा तत्कल्पनमिति भाषः । न च प्रत्यक्षत्वानुरोधादेव गुरुत्वेऽपि तत्कल्पनं, प्रत्यक्षताया