पृष्ठम्:न्यायलीलावती.djvu/७१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३८
व्यायलीलावती


भावात् । ततो योगीन्द्रियवदिन्द्रियमदृष्टसहायं अतीन्द्रियेऽपि गुरुत्वे प्रवर्तत इति । न च लघुत्वं, गुरुत्व पकर्पस्यैव लघुत्वप्रत्ययगोचरत्वात् । दहने व उद्गमननियमस्य कारणवेगपूर्वकचेगादेवोपपत्तेः । एतच्च कारणगुणापूर्वकमवयविनि ।

 नन्वेवं द्विपलिकरुचकाभ्यामारब्धस्य स्वस्तिकस्य कारणगुरुत्वापेक्षया न्यूनसमाधिकभावेन त्रिचतुःपञ्चपलिकत्वापत्ति-


न्यायलीलावतीकण्ठाभरणम्

आह तत इति । वस्तुगत्या अभ्युपगमवादोग्यमिति मन्तव्यम् । ननूकं तेजस ऊर्ध्वगमन हेतुर्लघुत्वं गुणान्तरं स्यादित्याह नचेति । एतदिति । गुरुत्वमित्यर्थः ।

 द्विपलिकरुचकारब्धे स्वस्तिके यदि समं गुरुत्वं स्यात्तदा चतुःपलिकस्वस्तिकं तावद् यदि न्यूनं तदा त्रिपलिकं यद्यधिकं तदा-

न्यायलीलावतीप्रकाशः

रुपादावपि तदकल्पनापत्तेरित्यर्थः । गुरुत्वापकर्षस्यैवेति । ननु लघुत्वापकर्ष एव गुरुत्वं स्यात् । न च गुरुत्वं प्रमाणसिद्धमिति तदभावो लघुत्वं न वैपरीत्यं लघुत्वे मानाभावादिति वाच्यम् । तैजसामाद्यां क्रियां पक्षीकृत्य गुरुत्वल्लघुत्वस्यापि साधयितुं शक्यत्वात्, पतनोत्कर्षापकर्षश्च लघुत्वविशेषाभावेनैवोपपत्रः । अत्राहुः | तेजलामाद्यक्रियायाः वेगेनैवोपपत्तेः । न च चिरोत्पन्ननिश्चले तेजसि तदभावः, अत एवेद्रनीलप्रभायाः कदाचित्सक्रियत्वं कदाचिन्निः क्रियत्वामेति इन्द्रनीलप्रभाक्रियायाः पिण्डाद्यपकर्षणहेतुकत्वेन प्रत्यक्षसिद्धत्वात्पृथिव्यादौ त्वाद्यक्रियाया अनन्यथासिद्धत्वात् । ननु दहनोद्गमनार्थ लघुत्वस्वीकारः स्यादत आह दहने चेति । एतच्च गुरुत्वमित्यर्थः ।

न्यायलीलावतीप्रकाशविवृतिः

एव स्वाभाविक्या असिद्धेरिति भावः । अनन्यथीसिद्धत्वादिति । वेगेनेति शेषः | तस्य कारणवेगपूर्वकेत्यादिमूलेन तत्र सद्भावप्रदर्शनात वेगनाशानन्तरं निश्चलतेजसि नोदनादिकं विना क्रिया सिद्धैव पृथिव्यादौ तद्विनापि तत्फलादावाद्यपतनानुभवाद्गुरुत्वसिद्धिरिति भावः ।

 प्रत्येकं रुचकयोः द्विपालकत्वे त्रिचतुरित्यादिविरुद्धेत्यत आह