पृष्ठम्:न्यायलीलावती.djvu/७१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३९
न्यायलीलावती कण्ठाभरण-सविवृतिप्रकाशोद्भासिता


रिति चेत् । न खण्डावयविनां स्वस्तिकारम्भकत्वात्, नतु तद्वयवपरम्परायाः परमाण्ववसानायाः, अतः पलरूपं गुरुत्वं कारणाकारणसमाहारस्य तत्र कारणगुरुत्वस्यापरिचयात् समहीनाधिकभावेऽप्यविरोधात् । तथाप्यवनतिभेदः स्यादिति चेन्न । भूयसि गुरुत्वेऽल्पगुरुत्वोत्कर्षेऽप्यवनतिभेदभावात् ॥ इति गुरुत्वम् ॥


न्यायलीलावतीकण्ठाभरणम्

पंचपलिकं त्रयमध्यसम्भवोत्यत आह नन्वेवमिति । खण्डावयविनामिति । च्यवकादीनामेव तु तेष्वेव सत्सु नदवयवानामपीत्यर्थः । आरम्यारम्भकवादस्य निरासात् अत इति । यदि रुचकयोरपि व्यवस्थितं गुरुत्वं स्यात्तदा तन्निरूपितं समन्यूनादित्वं निरूप्येत तदेव तु नास्तीत्यर्थः : । ननु तथापि कियानिति शेषः स्यादेवेत्यत आह तथा पीति । पाषाणादावुन्नीयमाने तदुपरि स्थितानां तृणादीनां लघीयसां यथा अवनतिविशेषो नोपलभ्यते तथा प्रकृतेऽपीत्याह भूयसीति ।

न्यायलीलावतीप्रकाशः

 नन्वेवमिति । एकमेकपलिकमपरं चैकपलिकं रुचकं ताभ्यामारब्धस्य स्वस्तिकस्येत्यर्थः । कारणगुरुत्वेति । समवायिकारणगुरुत्वं तावत् पलद्वयमितं तदारब्धावयविनि गुरुत्वस्यावयवगुरुत्वापेक्षया न्यूनसमाधिकभावेन त्रिचतुःपञ्चपलिकतापत्तिरित्यर्थः । परमाण्ववसानाया आरम्भकत्वमित्यनुषज्यते, पलरूपं गुरुत्वं प्रत्येकं रुचकयोरिति शेषः । कारणाकारणेति । कारणं स्वस्तिकसमवायिकारणं, अकारणं अवयवपरम्परा तत्समाहारस्येत्यर्थः । अविरोधादिति । न त्रिचतुःपञ्चपलिकतापत्तिरित्यर्थः । तथापीति | स्वस्तिकसमवायिकारणतदवयवपरम्परागुरुत्वस्य कारणस्य भावादित्यर्थः । भूयसीति । समतुलाधृतपाषाणखण्डोपरि निपतिततृणादादित्यर्थः ।

न्यायलीलावतीप्रकाशविवृतिः

एकमेकपालिकमिति । आरम्भकत्वमिति पञ्चम्यन्तस्य पूर्वमुपात्तस्य विभक्तिविपरिणामेनानुषङ्गो द्रष्टव्यः । न त्रिचतुःपञ्चेति । स्वस्तिकसमवायिकारणस्य न फलरूपं गुरुत्वं समाहारश्च पलरूपगुरुत्वाश्रयो न स्व-