पृष्ठम्:न्यायलीलावती.djvu/७१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती द्रवत्वं स्वाभाविकमन्यथा च । पूर्वमन्सु, अन्यत्क्षितितेज- सोः। करकाद्रवस्वं न स्वाभाविकमिति चेत् । न । घृतादिवत्तस्य नैमित्तिकविलयनाभावात् । उत्तरं च कनके पार्थिवमेव तकि न स्यादिति चेन। तेजो द्रवस्ववद्रपित्वात् क्षितिवत् । ततः पक्ष- न्यायलीलावतीकण्ठाभरणम् स्वाभाविकमिति । तेजःसंयोगाजन्यमित्यर्थः । घृतादिवदिति । तेजः- संयोगमन्तरेणापि तद्विलयनदर्शनाददृष्टावीनं तत्र काठिन्यमित्य- र्थः । क्षितितेजसोरित्युक्तं तत्र कुत्र तेजसीत्यत आह उत्तरमिति | तेज इति । तेजस्त्वं द्रवत्ववद्वृत्ति रूपवद्वृत्तिद्रव्यत्वसाक्षाद्याव्य- जातित्वात् पृथिवीत्ववदित्यर्थः । नच रसवद्वृत्तित्वमुपाधिः, साध्य न्यायलीलावतीप्रकाशः स्वाभाविकमिति । यद्यपि स्वभावजन्यत्वं जलपरमाणुद्रवत्वाव्यापकं, स्वभावाश्रितत्वं नैमित्तिकस्यापि, तथापि तेजःसंयोगासमवायिका. रणकवृत्तिद्रवत्वव्याव्यजातिशून्यत्वं स्वाभाविकत्वम् । अन्यथेति । तादृशजातिमदित्यर्थः । नैमित्तिकेति । तादृशतेजः संयोगजन्यद्रवत्वा- नाधारत्वादित्यर्थः । उत्तरं नैमित्तिकम् | कनकइति तेजसि । पार्थिवे घृतादौ सम्प्रतिपन्नत्वान्नोक्तम् | तेजो द्रवत्ववदिति । नन्वालोकादिपक्षत्वे न्यायलीला वतीप्रकाश विवृतिः स्तिकसमवायिका रणगुरुत्वापेक्षया न्यूनसमाधिकभावे सर्वत्रावि. रोधस्तस्याल्पत्वादिति सिद्धान्तसंक्षेपः । तेजःसंयोगेति । अवयवित्वस्य पृथिव्यादावपि कारणगुणत्वादुत्पत्ते. रतिव्याप्तिरतो जातिगर्भता । ननु तेजःपदं व्यर्थम् । अखण्डाभावे न व्यर्थतेत्येके । वस्तुतस्तेजः पदसंयोगासमवायिपदयोर्विकल्पेनान्वयो न क्षणद्वये तात्पर्यम् । अदृष्टवदात्मसंयोगमादायासम्भववारणाय समवायिपदम् । ननु नैमित्तिकत्वं निमित्तजन्यत्वं, तश्च करकावि- लयनेप्यस्तीत्यसिद्धिरतो व्याचष्टे तादृशेति । अत्यन्तेत्यर्थः । एतच्च भौमोष्मजन्यत्वेनासिद्धिवारणार्थमित्येके | स्वरूपनिर्वचनं तदत एव लक्षणे नोपात्तमित्यन्ये । अन्यव्यवच्छेदतात्पर्यभ्रमं निरस्यति घृता- दाविति । तेज इति । द्रव्यत्वादिनार्थान्तरवारणाय द्रव्यत्वव्याप्येति । सा-