पृष्ठम्:न्यायलीलावती.djvu/७२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतोकण्ठाभरण- सविवृतियका शोद्भासिता ६४३ मौमस्यापि गुरुत्वस्य ध्यामादेरत्यन्तातल संयोगेऽप्यनुच्छेदात् । सुवर्ण राजमं अत्यन्मानलसंयोगऽप्यनुच्छिमानानित्यद्र- त्याधिकरणस्वान्, न यदेवं न तदेवम् यथा क्षित्यादिकम् । भौममपि द्रवत्वं स्नेहवौपाविकं स्यादिति चेत् । न । काचादिषु द्रवत्वेऽपि संग्रहाभावात् । आप्यत्वे तु संग्रहाते : (१)। द्रवत्वं विहाय स्नेह एव स्यन्दननिदानमस्स्विति चेन्न । तदुत्कर्षेऽप्यनुरकर्षात् । नहि घनीभूतघृतादिकमपेक्ष्य चिरस्यन्दि जलं, जलापेक्षया चा- शीघ्रस्यन्दि घृतम् ॥ इति द्रवत्यम् । MAINTENANTA न्यायलीलावतीकण्ठाभरणम् मादन्यत्वात् । गुरुत्वस्याभौमत्वसाधके हेतो व्या भौमस्यापी. ति । श्याम इष्टकाविशेषो ध्यान इति प्रसिद्धः । द्रवत्वेति । द्रवत्वाधिक रणत्वे सति तैजसत्वमित्यर्थः । नैमित्तिकद्रवत्वं क्षितितेजसोरिल्या. क्षिपति भौममपीति | काचादिध्विति | कायादौ पार्थिवे यद्यद् द्रवत्वं तत्त दाव्यं स्यात् संग्रहकारि स्यादित्यर्थः । द्रवत्वात् स्यन्दनमिति मूल माक्षिपति द्रवत्वं विहायेति | स्नेहमात्रं यदि स्यन्दनकारि स्यात्तदा न घृतादधिकं स्यन्दनं स्यात्, तथाच न स्यन्दनं स्नेहासमवायिका. रणकं तदुत्कर्षाननुविधायित्वात् रूपवदित्याह तदुत्कर्षेऽपीति । तदेवाह नहीति | ननु शैथिल्यवत्द्रवत्वमपि संयोगभेद: स्यादिति चेन्न | जले जलान्तरमिश्रणे संयोगबुद्ध्यभावेऽपि द्रवत्वधीसत्वात् । न्यायलीलावतीप्रकाशः माह भौमस्यापीति | ध्याम इष्टिकाविकारविशेषः । औपाधिकं आध्यमि- त्यर्थः । आप्यत्वे त्विति । स्नेहसमानाधिकरणद्रवत्वस्य सङ्ग्रहजन. कत्वादित्यर्थः । तदुत्कर्षेपीति । न हि यदुत्कर्षेऽपि यत्रोत्कृप्यते तत्तद- समवायिकारणमित्यर्थः । ननु संयोगविशेष एव शिथिलादिबद्रवत्व. न्यायलीलावतीप्रकाशविवृतिः मत उक्तं साक्षादिति । तदुत्कर्षेऽपीति मूलम् । इदमुपलक्षणं तथासति द्रुत. काचादे: स्यन्दनं न स्यादित्यपि द्रष्टव्यम् । न हीति | स्वलमवायीति ( १ ) तत्संग्रहमस फेरिति प्रा० पु० पाठः |