स्नेहो माहिषगण्यादिषु दधित्ववत् घृतादिषु जातिभेद एवास्तामिति चेत् । न । तस्यैकसम्बन्ध्यपेक्षया सम्बन्ध्यतरे सोत्कर्षत्वात् । उत्कर्षस्य च सामान्यात्मकतया सामान्येऽभावात् ।
न्यायलीलावतीकण्ठाभरणम्
इदं स्निग्धमिदं स्निग्धमित्यनुगतमतिदर्शनादाह स्नेह इति । स्ने हे तावदुत्कर्षो गृह्यते, स च जातिरूपः, स्नेहश्च यदि सामान्यं स्थात्तदा तत्रोत्कर्षो न स्यादित्याह तस्येति । स्नेहात् संग्रह इति मूल-
न्यायलीलावतीप्रकाशः
मस्तु, अन्यथा काठिन्यादीनामपि गुणान्तरतापत्तेः । अत्राहुः । संयोगम्य जलमात्रवृत्तित्वादवयविनि समुद्रे जलान्तरसंयोगाग्रहाद्रवत्वं न गृह्येत संयोगिनोरग्रहे संयोगाग्रहात् ।
तस्यैकेति । सावधित्वं च सामान्यान्तरे यद्यपि न दृष्टं तथाप्युत्क र्षादे: प्रतीतिबलादास्थीयते । यद्यपि जलात्स्निग्धतरं घृतमिति प्र-
न्यायलीलावतीप्रकाशविकृतिः
प्रकृताभिप्रायेण स्वरूपनिर्वचनम् । यत्तु दण्डाद्युत्कर्षेऽपि घटायुत्कर्षाभावायभिचारवारकमेव तदिति । तश्चिन्त्यम् । द्रव्ये उत्कर्षाभा वात् । न चासमवायिसंयोगोत्कर्षेण घटोत्कर्षाभावाद्यभिचारः । तरलादिशब्दवाच्यस्योत्कर्षस्य प्रकृतेऽभिधानात्तस्य च तत्रावृत्तेरिति भावः । संयोगस्येति । द्रव्यत्वस्थानीयस्येति शेषः । एतदपि जलद्रवत्वमभिप्रेत्य । अवयवानां परस्परं संयोगो गृह्यत एवेत्यत आह अवयविनीति । जलान्तरसंयोगाग्रहादिति । अनुभूतरूपस्पर्शजलसंयोगस्थावयविन्यपि सम्भव एव । द्रव्यान्तरानुत्पत्तिरित्यभिप्रायेणाग्रह पर्यन्तधावनम् । योग्यजलसंयोगे अवयवान्तरोत्पत्तेस्तत्र च जलसंयोगाभावाद्द्रवत्प्रतीतिर्न स्वादयोग्यजलसंयोगस्य चाग्रहादेव सामान्याव यवसंयोगस्य चावयविन्यभावादवयवानामेव परस्परसंयोगस्य चावयविनिष्ठतथा भाने भ्रमत्वापत्तेः, परम्परासम्बन्धाश्रयणे च गौरवा न्न संयोगात्मकं द्रवत्वमिति प्रघट्टकार्थः ।
ननूत्कर्षस्य सामान्यात्मकत्वे सावधित्वं न स्यादित्यत आह सावधित्वमिति । इदमपि मतान्तरम् । वस्तुत उत्कर्षशब्दात्मकव्यवहार