संग्रहस्तर्हि कतकजलविमलीकरण वज्जातिभेदादास्तामिति चेत् ।
न । तोयत्वघृतत्वद्रवत्वादीनां व्याभिचारात् एतदुत्कर्षापकर्षाभ्यां सोत्कर्षापकत्वात् । तथापि कथमम्मस्येव, द्रुमादाबप्युपलब्बेरिति चेन्न । संयुक्त समवाया देवोपपत्तेः । द्रवत्ववदग्रहान्नैवमिति । चेत् । न तोयव्याख्यानावप्तरर एव पररास्तत्वात् ॥
इति स्नेहः ॥
न्यायलीलावतीकण्टाभरणम्
माक्षिपति संग्रह इति । यथा जलवैमल्ये कतकजातीयत्वं तन्त्र तथा संग्रहेऽपि किंचित् स्यादित्यर्थः । कतकत्ववत् सा जातिरनुपलम्भबाधितेत्याह तोयत्वेति । तथापि संग्रहलक्षणकार्यानुरोधादेव कल्पयिध्यत इत्यत आह एतदिति । स्नेहोतकर्षापकर्षाधनोत्कर्षापकर्षतया स्नेहकार्यत्वमेव संग्रह स्त्यर्थ: । स्नेहोऽमस्येवेति मूलपाक्षिपति तथापीति । द्रवत्वेति । स्नेहवद् द्रवत्वमपि पृथिव्यामौपाधिकमेव स्यादिति प्रतिबन्दिरित्यर्थः ।
न्यायलीलावतीप्रकाशः
तीतेः स्नेहाधारस्योत्कर्षो न तु स्नेहस्य, तथापि क्रियागुणौ प्रकृष्ये ते न द्रव्यमिति तत्रापि "लविशेषणे ही” ति न्यायेन स्नेहोत्कर्ष इति भाव: । ननु कतकत्वादिजातिमयक्त्या जलविमलीकरणवत् जलत्वादिजातिमध्यक्त्या संग्रह इति न स्नेहः सङ्ग्रहासमवायिकारणमित्याह सङ्ग्रह इति । तोयत्वेति । ननु तोयत्वव्यापिका अन्यैव जातिरस्ति सङ्ग्रहोत्कर्षादेरपि घृतत्वादिकमेव प्रयोजकम् । मैवम् । पूर्वोकयुक्तेरेव स्नेहस्य जातित्वनिरासात् । एतदुत्कर्षेति । स्नेहोत्कर्षापकर्षास्यामित्यर्थः । सोत्कर्षेति । सङ्ग्रहस्येति शेषः ।
न्यायलीलावतप्रिकाश विद्रुतिः
एवावधिज्ञानापेक्षा तत्प्रवृत्तिनिमित्तस्यावधित्वघटित मूर्त्तित्वादिति सारम् । सङ्ग्रहोत्कर्षेनीति । तदुत्कर्षेऽपीतीत्यादिवक्ष्यमाणयुक्तिरप्यपास्तेति भावः | जलघृतसाधारण्या अन्यस्या जातेरनुपलम्भबाधितस्वात् स्नेहात्मिकै सा जातिर्वाच्या, सा च निराकृतैवेत्यत आह पूर्वोक्तेति । उत्कर्षो जातिरूपो जातावलम्भव्ये वेत्यादेरित्यर्थः ।