पृष्ठम्:न्यायलीलावती.djvu/७२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यायलीलावती ननु प्रोक्षणादिजन्यसंस्कार संभवे संस्कारविविध इति न सिद्ध्याते | तथा हि "बीडीन्प्रोक्षती"नि द्वितीया प्रोक्षणजन्य- फलाश्रयत्वं प्रतिपादयति (१) गृहं गच्छवित्, तच्च दृश्यं ना- स्तीत्पतीन्द्रियः संस्कारः । एवमभिमन्त्रिता मृदादयो विषाय- न्ते । तत्राभिमन्त्रणजन्यः संस्कारः। तत्र देवतानां संनिधिः क्रियते इति चेन्न | देवतादिकल्पनापेक्षया संस्कारकल्पनाया लघुत्वात् । आगमप्रसिद्धसरवानां देवतानामवश्यकल्पनेति चेत् । न । लोका न्तरवर्तित्वेन देवतानां देहसंनिधानस्याशक्यत्वात् । सार्वइये चेत- 66. . न्यायलीलावतीकण्ठाभरणम् संस्कारस्त्रिविध इति मूलमाक्षिपति नन्विति । वेगस्थितिस्थाप. कभावनासु तदनन्तर्भावादिति भावः | प्रोक्षणादिजन्यः संस्कारस्ता वदुभयानुमतः साम्राज्यादिसमवेतो नवेति विप्रतिपत्तौ विचारे प्र. वर्त्तनीये पूर्वपक्षमाह तथाहीति । प्रोक्षणं हि प्रत्यक्षक्रिया तथा यदि ब्रीहिनिष्टं फलं न जननीयं, तदा वीहीनिति कर्माणि द्वितीया न स्यात्, परसमवेतक्रियाफलशालिस्खविरहे कर्मत्वानुपपत्तेरित्यर्थः । स व संस्कार आधेयशक्तिरिति गीयते, तस्यामेव उदाहरणान्तर- माह एवमिति । देवतानामिति । तत्तन्मन्त्रलिङ्गदेवतानामित्यर्थः । देवतेति । देवतापि न प्रत्यक्षा, तथाच कल्पनीयेत्यात्मशरीरेन्द्रियादिवत्तत्क. स्पनादित्यर्थः । आगम एव देवतायां प्रमाणं, तथाच सन्निधिमात्रं मन्त्रादिना कल्पनीयमिति लाघवमेवेत्यत आह - आगमेति । देवता- सान्निध्य विकल्प्य निराचष्टे लोकान्तरेति । ननु स्थानादिगोचरज्ञान. न्यायलीलावतीप्रकाशः ननु प्रोक्षणेति । “व्रीहीन् प्रोक्षती"त्यत्र कालान्तर कार्यानुक्कूलोऽती. न्द्रियो विशेषः प्रोक्षणजन्योऽस्तीत्युभयसिद्धम् । स वीहिसमवेतो न. वेति संशये व्रीहिनिष्ठ एव वाच्यः, द्वितीयान्तश्रुत्या बोहे: किया- जन्येष्टफलभागित्वावगमात्, परसमवेतक्रियाफलाश्रयस्य कर्मत्वादि- त्यर्थः । देवतःनां तत्तन्मन्त्रप्रकाश्यानामित्यर्थः । देवतादीति । देवताक. ( १ ) ग्राममिति पा० पु० पाठः |