पृष्ठम्:न्यायलीलावती.djvu/७२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


कश्चिज्जातिविशेषो बजिपृरतरौ वावभासते । अदृश्यत्वे चाती न्द्रियशक्तिस्वीकारात् लाक्षाग्मावसिहावयवेष्विति चेत् । न । तदवयवानां शांषात् परमाणूनां च पार्थिवानां सर्वत्राविशेषात् । क्षीरविमिश्रत्रि फलाजळावसिक्तसितापराजिताशाखाभेदे सितासितकुसुमानुपपत्तेः साक्षात्स्वसंगिंणि बीजावयवभेदेऽरुणिमान मनर्जयतो संसर्गिणि कुसुमे रक्तताधानमनु- पपन्नम् । यदाह --

न भिनत्ति कृयापि मात्रया फलकाण्डाङ्करपल्लवानपि ।
यदयं निहितो रसस्तया तदनुत्पन्न []मिवावभासते ॥


न्यायलीलावतीकण्टाभरणम्

रब्धतरुत्वमेव तदारभ्भे प्रयोजकं, तच्च नातीदिये येन शक्तिकल्पना स्यादित्याशंकते लक्षारसेति । भवेदेव यदि तरोरारम्भपर्यन्त लाक्षारसानुवृत्तिः स्यान्न त्वसमित्याह तदवयवानामिति । संकानन्तरं लाक्षारसावसिक्ततर्ववयवानां शुष्कन्वादित्यर्थः, लाक्षावयवानां वा । ननु य एव तरकावयवाः परमाणवः सिक्तास्त एव तरुमारभन्ते इत्यत आह परनाणूनामिनि । सेकस्य चिरातीतत्वे परमाणुमात्र तस्त्रं वाच्य, तथ्थाविशिष्टमित्यर्थः । शक्तेविषयान्तरमाह क्षोरेति । परक्ष्लोकमुपवेशयितुं पाठमारचयति साक्षात्स्वति । यदि च लाक्षारससाकल्यमेव बोजपुरकुसुमपर्यन्तमुपकुर्य्यात तदाऽग्रकाण्डाद्यारुण्यमपि भवेदित्यर्थः । तयेति शक्त्या, विनेत्यध्याहार्थ्यम् । पुरुषनिष्ट एव सं-

न्यायलीलावतीप्रकाशः

पादेव तदारव्धक्कुसुमेष्वरुणिमेत्यर्थः । क्षौरविमिति । यदि सेकादेव विशेषस्तदा एकैकशोऽपि क्षीरत्रिफलाभ्यामवसे के कुसुमेषु विशेषः स्यात्, नचैवं, किन्त्वाभ्यामेव विमिश्रीभाव इत्याधेयशक्तिरित्यर्थ: । ननु सेकेन स्वसंसर्गिणि बीजावयव अरुणिमानमुत्पाद्य तदारब्धवृशेषु तदुत्पादात्तज्जनितकुसुमेष्वरुणिमा स्यादित्याह साक्षात्स्वेति । न भिनत्ति-न विलक्षणान् करोतीत्यर्थः । तदनुपपन्नमिति । अङ्कुरा


  1. तदनुपपन्त्रमिति प्रकाशाभिमतः पाठः ।