पृष्ठम्:न्यायलीलावती.djvu/७२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावती अत्रोच्यते । संस्कारस्य हि द्वयी आधारता-समवायः स्वभा वप्रत्यासत्तिथ | तत्र व्रीह्याधारता स्वभावप्रत्यसत्तिरव स्यात्, भावनावत् | यथा तद्विषयज्ञानप्रतत्वमेव तदीयत्वं भावनायाः, तथा तद्विषयप्रोक्षणादिमतत्वमेव तदीयत्वम् । प्रत्यासत्तिश्च तदु- परक्तप्रतीतिगम्या | सा च ज्ञात इव (१) संस्कृत इति सम्भवति । मुख्य सम्बन्धकल्पनायां (२) किं बाधकमिति चेत् । कल्पनायां (३) ६५० न्यायलीलावतीकण्ठाभरणम् स्कार: स्वरूपसम्बन्धेन वीहिषु वर्त्तमानः कर्मत्वादिप्रयोजक इत्याह संस्कारस्य हीति । मुख्यसम्बन्ध इति । समवाय इत्यर्थः । कल्पनाया- न्यायलीलावतीप्रकाशः दिषु विशेषानाधाने कुसुमारुण्यमनुपपन्नमित्यर्थः । अत्र तयेत्यन- स्तरं विनेत्यध्याहरन्ति | प्रोक्षणजन्य पुरुषनिष्ठसंस्कारसम्बन्धादेव क. मेरवोपपत्तिरित्याह संस्कारस्य हीति | यथेति । यथा घट जानामि घटं भा. वयतीत्यत्र ज्ञानभावनयोश्तद्विषयत्वेन स्वरूप सम्बन्धन द्वितीयोप पत्तिस्तथा प्रकृतेषीत्यर्थः । तद्विषयेति । अतीततद्विषयज्ञानप्रसूतत्वमि त्यर्थः । तथा च प्रोक्षणजन्यसंस्काराधारत्वाहीहीणां कर्मत्वमुपपन्न मिति नाधेयशक्तिकल्पनमिति भावः | स्वरूपस्य प्रत्यासत्तित्वे मान. न्यायलीलावतीप्रकाशविवृतिः भिधानमयुक्तं, तथापि परम्परया प्रयोजकाद्विशेषणादित्यर्थः । अध्याहर- न्तीति, वैमत्यसूचनाय | तद्वीजन्तु तयेत्यस्य मात्रयेत्यर्थकत्वे काण्डा- कुरादौ मात्रानाघाने मात्रया कुसुमेषु रक्तताधानमनुपपन्न मित्यन्वय. सम्भव एवेति ध्येयम् । घटं जानामीति । यद्यपि क्रियाजन्यफलस्य क र्मणः स्वरूपसम्बन्धे प्रकृतोदाहरणं युक्तं, तथापि स्वरूपसम्बन्धेन कर्मतोपपत्तिरित्यतावन्मात्रे दृष्टान्तः । ( वस्तुतो ज्ञानभावनयोरिति फलपरमेव, ज्ञानपदच स्मृतिपरम्। यथायोग्यं वाऽन्वयः भावनया ज्ञान जनकत्वेन तत्प्रसूतत्वमसम्भवतीत्यत आह) (४) अतीततद्विषयेति | स्वरूप. ( १ ) ज्ञात इति वत् इति मु० पु० पाठ | ( २ ) सम्बन्धे किं- इति मिश्राभिमतः पाठः | ( ३ ) कल्पना गौरवमिति प्रकाशाभिमत पाठ । ( ४ ) i ) चिन्हित पाठः ( १ ) आदर्शपुस्तके नास्ति ।