पृष्ठम्:न्यायलीलावती.djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावती
न्यायलीलावतीप्रकाशः


सप्तम्योरभेदात्, तथाऽप्यत्र निर्धारणमेव नास्तीति षष्ठीसमास एव नराणां क्षत्रियः शूरतम इत्यादाविव समुदायापेक्षया जातिगुणक्रिया. भिरेकदेशस्याऽपृथक्करणात् । यद्वा पञ्चमीतियोगविभागादत्र समासः । पुरुषेभ्य उत्तमः पुरुषोत्तमः । यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि वेदे लोके च प्रथितः, पुरुषोत्तम इति गीतासु भगवद्वचनात् । तस्मै पुरुषोत्तमाय नमः । पुरुषोत्तमत्वमेव नमस्कार्यताप्रयोजकं रूपम् । अन्यदप्याह । यो नाथः प्रभुः, जगत् कार्यजातम् , सृजति जनयति । ततः सृष्टेरनन्तरम् अवति अनिष्टनिवृत्तिशालि

न्यायलीलावतीप्रकाशविवृतिः

यत्वेनास्य निषेधस्य तदविषयत्वमिति मतं तत्तुच्छम् सूत्रस्य लोकवेदोभयसाधारणतया वेदमादायैव सार्थकत्वादिति दिक् । तथापीति । निर्धारणप्रयोजकरूपस्य समस्यमानपदादन्यत उपस्थितौ सत्यामेव समासनिषेधः, भवति च नराणां क्षत्रियः शूरतम इत्यत्र समस्यमानन· रक्षत्रियपदादन्येन शूरपदेन निर्धारणप्रयोजकरूपलाभो न चात्र तथा। न चैवं नरशूर इत्यपि स्यात्, वृत्तिकारस्य तज्जातीयमात्रोदाहरणप्रदर्शनेन तथासूत्रतात्पर्यनिश्चयादिष्टापत्तेः । यद्वति। पञ्चमी भयेनेतिसूत्रे यद्यपिभयहेतुनैव पञ्चमीसमासविधिस्तथापि प्रयोगानुरोधेन पञ्चमीत्येतावन्मात्रं व्यवच्छिद्यावधिपञ्चम्यन्तेनापि समासः साधुरित्यर्थः । योगविभागः सूत्रव्यवच्छेदः। न चैवं पञ्चमीसमासेनापि नरशूर इत्यपि स्यादिष्टापत्तेः। मिश्रास्तु उत्तमत्वस्येव शूरत्वस्य सावधित्वाभावादेव मात्र स प्रसंगः। अतएव नरशूर इतिप्रयोगाभावमेव हृदि निधाय पूर्वापरितोषेणायं कल्प इत्याहुः । तश्चिन्त्यम् । शूरस्येवोत्तमस्यापि निरवधित्वात् , उत्तमत्वस्येव शूरत्वस्यापि सावधित्वात् । अन्यथा तस्मादयं शूर इतिप्रयोगानुपपत्तेः । तस्मात्पूर्वापरकल्पयोरुभयत्र नरशूर इतिप्रयोगे इष्टापत्तिरेव शरणम् । यस्मादिति । द्वाविमौ पुरुषो लोके क्षरश्चाक्षर एव चेतिगीतादर्शनादक्षरपदस्य पुरुषवाचकत्वात् पुरुषोत्तमत्वलाभः । ननु परमनिवृत्याधानमेवावनमपीति पौनरुक्त्यमत आह-अनिष्टेति । विरोधीत्यर्थः,तेनः सृष्ट्यवनयोः कार्यमात्रे संभ वेपी'त्यग्रिमग्रन्थाविरोधः पौनरुक्त्यपरिहारश्च, अनिष्टपदस्य दुःखपरत्वे तदुभयदोषापत्तेः । ननु प्रीतिः सुखं तज्ज्ञानं वा द्वयमपि