गौरवमेव । विजातीय कल्पनायामात्मविशेष [१] गुणस्य तु भूतसमवेतत्वमसम्पावितमेव । संयोगफलाश्रयत्वेन वा द्वितीय श्रुतेरुपपत्तेः । व्रीहीनितीप्सितकर्मणि द्वितीया वीडीणां विध्यपे-
क्षितफळाधिकरणत्वं प्रतिपादयति संयोगस्य विध्यनपेक्षितस्वमिति चेन्न । तस्यापि विध्यपेक्षितादृष्टजननद्वारणेपेक्षितत्वात् [२] । एतेनाभिमन्त्रणं व्याख्यानम् कुसुमारुणिमा-
भ्यायलीलावतीकण्ठाभरणम्
मिति । बाधकमित्यनुषज्यते । नत्वद्दष्टमेव तत्समवेतं स्यादित्याह आत्मगुणस्येति । एतेनेति । पुरुषनिष्ठ संस्काराधारत्वेनैवेत्यर्थः । कुसुमारुणिमा चेति । उपादानं तस्य कुसुममेव असमवार्यिकारणं तद्वदवयवारु-
न्यायलीलावतीप्रकाशः
माह प्रत्यासत्तिश्चेति । मुख्य सम्बन्ध इति । अतिरिक्त सम्बन्ध इत्यर्थः । कल्पनेति । यथोक्तेनैवोपपत्तेरित्यर्थः । न वा साक्षात्सम्बन्धः पुरुषनिष्टाहष्टेन व्रीहीणां सम्भवतीत्याह आत्मगुगस्य त्विति । संयोगेति । धात्वर्थाव च्छेदक प्रोक्षणजन्य संयोगाश्रयत्वेन कर्मोपपत्तेरित्यर्थः । न च संयो गावच्छिन्न एव व्यापारविशेषः प्रोक्षणार्थ तथाच प्रोक्षणैकदेशस्य कथं प्रोक्षणलाध्यत्वेनान्वय इति वाच्यम् संयोगस्योपलक्षणत्वेनापार्थत्वात्, अन्यथा ग्रामं गच्छतीत्यादौ ग्रामादेरपि कर्मत्वानुपपत्तिः । विध्यपेक्षितत्वं विधितात्पर्यविषयत्वं, तञ्चादृयोगयो रस्त्येव, विधिप्रतिपाद्यत्वं चाधेयशक्त्यापि नास्तीत्याह तस्यापीति । एतेनेति । अभिमन्त्रितपयःपल्लवादावपि अभिमन्त्रणेन पुरुषानेष्ठ एव
न्यायलीलावतीप्रकाशविवृतिः
सम्बन्धोऽपि साक्षादेवेत्यत आह अतिरिक्तेति | साक्षात्सम्बन्धः संयोग समवायान्यतरः । यद्यव्यद्दष्टेन समवायं व्रीहेः कोऽपि न स्वीकरोति, तथापि साक्षात्सम्बन्धस्यौत्सर्गिकत्वाद्यदि यः कश्चिदेवं वदेत्तदा तम्प्रति बाघकबलादेवोत्सर्गत्याग इत्युत्तरमिति भावः । संयोगस्येति ।