पृष्ठम्:न्यायलीलावती.djvu/७३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायलीलावतीकण्टा-रुषृितिप्रकाशाता कर्म ( १ ) साध्यमिति तत्प्रतीतिः, अत्र नियमाभावात्, अन्यथा न्यायलीलावतीकण्ठाभरणम् तत्र कर्म्मसन्तानजनकतयैव वेगोऽनुमास्यत इत्यत आह न चेति । तत्- प्रतीतिर्वैगप्रतीतिः । कर्म्म न कर्म्मजनकमित्यत्र नियामकाभावात, ततृ न्यायलीलावतीप्रकाशः क्षणिकत्वेऽपि भूयोवच्छेदेन क्वचिदुत्तरसंयोगाच्छ्रीत्वम् | संयोगेलि । तथाच तेनैव रयेण गच्छतीति प्रतीतेरन्यथासिद्धेर्न ततो बेगसिद्धि रित्यर्थः । ननु कर्मणः कर्मासाध्यत्वात् कर्मान्तरेण व विना देशान्त न्यायलीलावतीप्रकाशविवृतिः तेत्येकमेव कर्मेत्यत आह कर्मणां चेति । अन्यथैकत्वेऽपि कुतः शीघ्रत्वं कर्मवै जात्यवादश्च तुल्य एवेति भावः । तथाच लाघवादुत्तरसंयोग. त्वेनैव नाशकत्वमिति न कर्मैक्यमिति भावः । ननु वेगक्षणिकताया. मुत्तरकर्मोत्पत्तिवत कर्मक्षणिकता यामुत्तर कर्मोत्पत्तिप्रसङ्गः । पूर्व. कर्मणो नष्टत्वादुन्तर कर्मणश्चासमवायि कारणाभावेनानुत्पस्याइलम- वायिकारणाभावात् । न चात एव वेगैक्यस्वीकार इति वाच्यम् | विनिगमकाभावेन कर्मैक्य स्वीकारापत्तेः, तथाच कुतस्त्वदुक्तप्रसङ्गः | उत्तरसंयोगत्वेनैव कर्मनाशकत्वमिति यदि, तदा तत्वेनैव वेगनाश. कत्वमित्यपि तुल्यम् । एतेन द्वयोरपि विनिगमकाभावेन क्षणिकत्व. मिति परास्तम् । पूर्वयोरुत्तरसंयोगेन नाशे उत्तरयोरनुत्पत्तिप्रसङ्गात् असमवायिकारणस्य कार्यसमानकालत्वनियमात्, तन्नियमानभ्युप गमे च कर्मण एवासमवायिकारणत्वसम्भवेन वेगासिद्धिप्रसङ्गात् । तस्माद्विनिगमकाभावेन द्वयोरपि स्थायित्वमित्येव ज्ञायत इति । मैवम् | कर्मैक्ये वेगासिद्धिप्रसङ्गात उत्तरकर्मकारणत्वेनैव तरिसद्धेः । न च प्रत्ययादेव तसिद्धिः | तस्यागृहीत विच्छेदनानाकालस्थायि. कर्मालम्बनत्वात् तस्मात्स्वजन्य संयोगत्वनैव कर्मनाशकतायां लाघ. वसिद्धायामुत्तर कर्मकारणतया वेगसिद्धिरिति तत्क्षणिकतायां धर्मि. ग्राहकमानावरोधेन चरमसंयोगत्वेनैव वेगनाशकत्वकल्पनात गौर- वस्य प्रामाणिकत्वात् । न च कर्मैक्यमेवास्त्विति वैपरीत्यम्, कर्म नानात्वमुपजीव्य तत्कल्पने उपजीव्यविरोधादिति । कर्मान्तरेणेति । ( १ ) कर्मकल्पनासाध्यमिति प्रा० पु० पाठ | , .