पृष्ठम्:न्यायलीलावती.djvu/७३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती 9 न शब्द: शब्दसाध्य इति ध्वनिसंयोगविभागकल्पनापत्तेः । वेगशब्दस्य शिष्टराशुपर्यायत्वेन स्वीकारात् तस्य च समयभे- दवाचित्वात् । न चोभयवाचित्वं कल्पनागौरवात् । ततोऽभि- लापभेदावभासिनी प्रतिपत्तिः समयभेदमेवाश्रयते इति प्राप्तम् । मैवम् । सन्तानाशूत्पादस्यानाकलनेऽप्यन्तरा सम्भविनां वेगबु. द्धिविषयत्वात् सन्तानिनां क्रियासंयोगक्षणानामाशुभावस्य ? . न्यायलीलावतीकण्ठाभरणम् कर्मैव कर्मजनकमिति न वेगसिद्धिरित्यर्थः । ध्वनिर्वाथ्वः | यत्रापि ध्वन्यादिक नास्ति द्वितीयादिशब्दोत्पादनार्थ तत्कल्पना स्थादित्य- र्थः । ननु वेगशब्दवाच्येन केनचित् अवश्यं भाव्यं स एव वेग इत्यत अह बेगेति । उभयेति । समयभेदो गुणान्तरं वेगश्चत्युभयम् | अभिला पभेदो वेग इति शब्दभेदः | रहेण भ्रमत्यलातचक्रमित्यत्र भ्रमणैकय प्रत्ययानुरोधादेकरूय वेगस्य सिद्धेरिति समर्थयति सन्तानाशूत्पादस्येति । अग्नरा सम्भविनामिति । भ्रमणान्तरा सम्भविनामित्यर्थः । जनूक्तं संयोग. विभागप्रबन्धोत्पादादाशुत्पादप्रतीतिरित्याह सन्तानिनामिति । न म न्यायलीलावतीप्रकाशः रप्राप्तरेभावान्तरकर्मजनकतया वेगः सिदित्यत आह नचेति । तत्प्र. तीतिः - वेगप्रतीतिः | दूषयति अत्रेति । अनुकूलतर्काभावादित्यर्थः । प्रतिकूलतर्कमप्याह अन्यथेति । ध्वनिर्वायुधर्मविशेषः । नापि वेगशब्द- प्रयोगविषयतया वेगसिद्धिरित्याह वेगशब्दस्येति । अभिलापो वेगेने. त्येवंरूपः । सन्तानाशूत्पादस्येति । क्रियासंयोगविभागसन्तानाशूत्पादस्ये- त्यर्थः । ननु सन्तानाशुत्पादानाकलनेऽपि सन्तानिनामाकलनं स्यात् कर्मणः क्षणचतुष्टयावस्थायित्वेन तदाधारकालस्य प्रत्यक्षत्वादित्यत आह सन्तानिनामिति | वेगप्रतीतेरतिरिक्तगुणालम्बनत्वमिति शेषः । ननु न्यायलीलावतीप्रकाशवित्रुतिः उत्तरकर्मविनेत्यर्थः । ननु ध्वनिकारणत्वकल्पनयापि शब्द एव शब्द- जनक आयात इत्यतो व्याचष्टे ध्वनिर्वायुर्धर्मविशेष इति । तथाच ध्वनेः सं योगविभागयोरसमवायिकारणत्वकल्पनापत्तेरिति मूलार्थ इति भावः । सन्तानिनामिति । आशुत्पादस्येति शेषः । क्षणाचतुष्टयावस्थायित्व ने