पृष्ठम्:न्यायलीलावती.djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

पदार्थों द्रव्यादिपदार्थादधिक[१] श्लाघास्पदम् । अन्यत्र कर्म गृहादिपरिकर्म प्रियचेतोहरणचेष्टा वाऽधिकं यथा स्यादेवं श्लाध्यते । ग्रन्थे जातिपदार्थो नापोहादिरूपतया विप्लुतिमन्यथासिद्धिमागतो विप्लुतिर्जातीनां परस्परसांकर्यं वा । अन्यत्र जातिब्राह्मणत्वमाचारभ्रंशादिना विप्लुतिमागता । ग्रन्थे विशेषपदार्थस्थितिः श्लाघ्या अन्यत्र विशेषस्थितियोषिदन्तरापेक्षया वैलक्षण्यं श्लाघ्यम् । ग्रन्थे गुणादिभिर्गुणकर्मसामान्यविशेषैः सहजो नित्यः सम्बन्धः समवायोऽस्ति अन्यत्र प्रागुक्तगुणयोगः सहजः प्रयत्नानपनेयः। ग्रन्थेऽन्वीक्षा न्यायशास्त्रं तदेव वेश्म तस्य कर्म परिकर्म तत्र कुशला तथा चान्वीक्षा. यामपीयमुपकरिष्यतीत्यर्थः। यद्वा अन्वीक्षात्वं श्रवणानन्तरमननार्थ यो नयो न्यायः स एव वेश्म तत्कम्मणि परिकर्मणि तद्दूषणनिरासकुशलेत्यर्थः । अन्यत्रान्वीक्षात्वं पुनरवलोकनार्थ नयेन नीत्या यद्वेश्मकर्म परिकर्म चित्रादिलिखनं तत्र कुशला दक्षेत्यर्थः ।

न्यायलीलावतीप्रकाशः

वाक्यम्, स एवाऽस्य शास्त्रस्य लीला तद्वतीतिग्रन्थनाम । तत्र श्रीपदेनोत्कर्ष उक्तः । सा इयं सतां प्रीतयेऽस्तु अथ च श्लेषतो ग्रन्थकृतः प्रेयसी लीलावती। नीयते प्राप्यते कान्तचेतोऽनयेति न्यायः तादृशी या लीला तद्वती सा सतः प्रियस्य प्रीतये भवति । यत्र ग्रन्थे। प्रियापक्षेतु एकत्र द्रव्यं नाऽऽकुलम् न सदोषं व्याख्यातम् । अन्यत्र तु धनं न सदोषम् । एकत्र गुणगणो रूपादिसङ्घ उज्ज्वलः प्रमापितः । अन्यत्र गुणानां शीलादीनां गणो दोषासम्भिन्नः । एकत्र कर्म उत्क्षेपणादि अधिकं द्रव्यादिभ्य पृथक् श्लाध्यते प्रशंसाविषयः। अन्यत्र कर्म गृहव्यापारः। अधिकमिति क्रियाविशेषणम् । एकत्र जातिः पदार्थ. विशेषः विप्लुर्ति साङ्कर्यं न गता । अन्यत्र जातिर्ब्राह्मणत्वं सतीत्वाद्विप्लुतिं परपुरुषसम्बन्धातू(१) सदोषत्वं न गता। एकत्र विशेषाणां

न्यायलीलावतीप्रकाशविवृतिः ।

चेत इति स्वायत्तं क्रियत इत्यर्थः। परपुरुषसंसर्गादिति सदोषत्वे हेतुः। तस्य न्यायस्य शास्त्रं वेश्मेत्यन्वयः । स्त्रीपक्षे अन्वीक्षेत्यादिव्याख्यानं क्वचिन्नास्ति तत्र तस्यान्वीक्षा पश्चाश्चिन्ता स्वामिनि देशान्तरस्थे गृहचिन्ता नयो नीतिश्च वेश्मकर्म गृहव्यापारः, तत्र कुशलेत्यर्थः ।


  1. संसर्गादिनि 'विवृति'कृद्धृतः णठ ।