पृष्ठम्:न्यायलीलावती.djvu/७५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७२ न्यायलीलावती ननु क्रमोन गुणात्मकः, तत्रापि वृत्तेः | नापि जातिभेदः, तद्भेदानां गवादीनां पगपरथावानुपपत्तेः । नापि कालभेदः, स्वतस्तस्यासिद्धेः, उपाधीनां चावन्दात्मनां श्रोत्रणाप्रतीतेः । शब्दस्य च तस्यैव तद्वत्त प्रत्यनङ्गत्वात् । तत्कथं प्रतिपादकत्वमि ति चेन्न । पूर्वपूर्ववणध्वंसयाहचर्यस्यैव प्रकृते क्रमार्थत्वात् । तत एव न्यायलीलावतीकण्ठाभरणम् चमेलकाभावादित्यनुशयेन पृच्छति शब्दस्य चेति । शब्दात्मा चेत् क्रमस्तदा कथं शब्द एव वर्त्ततेत्यर्थः । पूर्ववर्णध्वंससमानकाल इत रवर्णस्य क्रम इत्याह पूर्वेति । प्रकृत इति । अन्यत्र कालोपाधिविशेषस्यैव क्रमपदार्थत्वादित्यर्थः । तत एवेति । अन्यथा क्रमोन प्रतीयेतेत्यर्थः । न्यायलीलावताप्रकाशः मात्रस्य तुल्यस्वेण्यापूर्वी विशेषाज्जरा जेत्यादावर्थविशेषधीदर्शना. दित्यर्थः । अयमभिसन्धिः । प्रत्येकवर्णानुभवजन्य संस्कार कुटैस्ताव- द्वर्णसमूहगोचरा एकैव स्मृतिर्जन्यते तावतां संस्काराणां युगपदुद्बो. धात् युगपदनेकार्थे इन्द्रिय सन्निकर्षालमुहालम्बनमिव, अन्यथा प. दार्थप्रतीत रुपपादयितुमशक्यत्वात् । यदाहु: - यस्यानवयवः स्योटो व्यज्यते वर्णबुद्धिभिः | सोऽपि पर्यनुयोगेन नैवानेन विमुच्यते ॥ तत्रापि प्रत्येकमेलकविकल्पग्रासापत्तेः । तत्र पीतवर्णात्मकगुणे पीत्यर्थः । स्वत इति । कालस्य नित्यविभोरेकत्वादित्यर्थः । उपाधीनां चेति । आनुपूर्व्याः श्रोत्रग्राह्यत्वात्पदं शृणोमीत्यबाधितानुव्यवसायादित्यर्थः । तस्यैवेति । अभेदे वैशिष्ट्याख्य सम्बन्धाभावादित्यर्थः । पूर्वपूर्वेति । पूर्व- पूर्ववर्णध्वंसविशिष्टत्वमुत्तरवर्णस्येत्यर्थः । उत्तरवर्ण समानकालध्वंस. प्रतियोगित्वं पूर्ववर्णस्येति यावत् । तत एवेति । यत एव पूर्ववर्णध्वंस न्यायलीलावती प्रकाश विश्वृतिः रिति दूषणम् | तन्मते वर्णानां नित्यत्वादनित्यत्वे चरमवर्णावृत्तिता. ङ्गीकारात् । तथाप्युक्त क्रमेणैकत्व प्रतीत्यर्थप्रतीत्योरुपपत्तौ गौरव त कल्पनायां बाधकामति रहस्यम् । उपादाने सम्बन्धोऽभेद एवेत्यत आह वैशिष्ट्याख्येति । ननु ध्वंसस्तदवृत्तिः कथं विशेषणमत्त आह उत्तरवर्णेति ।