पृष्ठम्:न्यायलीलावती.djvu/७५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यावलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भालिता ६७७ चापरिमितत्वम् | अपृथक्त्वं चैत (१) दवधिनिरूप्यपृथक्त्वाभाव- सम्बन्धित्वम् । दयादयस्त्विच्छाभेदा एव । निरिन्द्रियदेशस म्बन्ध एव हि मनसो निद्रेति परत्वापरत्वसङ्कर एव च मध्यता । गुरुत्वादिबन्दीग्रहस्तु तत्र तत्रोन्मूलित इत्यलम् । इति गुणानयमः ।। इति श्रीन्यायलीलावत्यां गुण विचार: ( २ ) | न्यायलीलावतीकण्टाभरणम् सत्वादिति भावः । एवमग्रेऽपि | परत्वापरत्वसंकर इति । परत्वाधिकर- णत्वमेव मध्यत्वमित्यर्थः । गुणनियम इति । गुणानां न्यूनाधिकसंख्या- व्यवच्छेदनियम इत्यर्थः ॥ इति श्रीमहामहोपाध्यायसन्मिश्रश्रीभवनाथात्मज महामहोपाध्यायसन्मिश्र- श्रीशंकरकृते लीलावतीकण्ठाभरण गुणपदार्थः समाप्तः । न्यायलीलावतीप्रकाशः परत्वापरत्वसंकर इति । एतच्चोपलक्षणम् | तुल्य संयुक्त संयोगाधिकरणे. ऽपि मध्यव्यवहारदर्शनात् । गुणनियमः शङ्कितगुणानामाधिक्यनिरा. करणमित्यर्थः || इति श्रीवर्धमानोपाध्यायविरचित न्यायलीलावतीप्रकाशे गुणपदर्थः ॥ न्यायलीलावतीप्रकाश विवृतिः व्यमाणमुत्तरापेक्षया उत्तरेण च निरूप्यमाणं दक्षिणापेक्षया मध्यम- परमित्यपरद्वयसंकर एव मध्यतेति भावः । इदमप्युपलक्षणम्, भिन्न. दिगवस्थितयोर्यत्रै कस्मिन्परत्ववयमुत्पद्यते तत्रापि मध्यत्वव्यवहा रात्, तदुक्तं गुणप्रकाशे-'परत्वमेव मध्यत्वमिति' । गुणपदार्थः ॥ ( १ ) चैतावदवधीति मु० पु० पाठः । ( २ ) गुणपदार्थोपवर्णनम् इति प्रा० पु० पाठः ।