पृष्ठम्:न्यायलीलावती.djvu/७५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वायलीलावती कथं पुनः कर्माणि पश्चैव ? भ्रमणरेचनादेरपि सच्चात् (१) । तत्रान्यथासिद्धायु क्षेपणादेरपि तथात्वप्रसङ्गात् । गमनं च न चलनातिरेकि । ततो न्यूनातिरेकाभ्यां (२) विभागोऽनुपपन्न एवेति ६७८ न्यायलीलावतीकण्ठाभरणम् उत्क्षपणापक्षेपणाकुञ्चनप्रसारणगमनानि पंचैव कर्माणीत्याक्षिपति कथमिति | रेवनादावित्यादिपदान्निष्क्रमण मंत्रानो ज्वलननमनोन्न मनसंग्रहः | अन्यथासिद्धाविति । गमन एव तेषामन्तर्भाव इति यदरिय थंः । गमनं चेति । कर्म्ममात्रलेव गमनं न च तांद्वेशेष इत्यर्थ: । न्यूना धिकत्वाभ्यामिति । गमनादेः पृथगनभिधानाद्विभागस्य न्यूनत्वं गमनस्य न्यायलीलावतीप्रकाशः उत्क्षेपणादीनि पञ्च कमणीति पञ्चविभागमाक्षिपति कथमिति । रेचनादेरित्यादिपदेन निष्क्रमणमंक्शन स्पन्दनो धर्ध्वज्वलन्न मनोनमन. सङ्ग्रहः । भ्रमणत्वादिबुद्धेरनन्यथालिद्धत्वादित्यर्थः । ननु संयोगवि शेषजनकत्वेनोपाधिना तदुपपत्तिरित्यत आह तत्रान्यथेति । उत्क्षेपणा दिबुद्धेरपि तत एवान्यथासिद्धेरित्यर्थः । किञ्च चलनमात्र एव गच्छ. ताति प्रतीतर्गमनत्वस्थ कर्मत्वान्तरजातित्वाभावात् कर्मणः पञ्चत्वा भावेन न्यूनत्वाद्विभागो न युक्त इत्याह गमनं चेति । विशेषादिति । उत्क्षे पणत्वादिबुद्धिभ्रमणत्वादिबुद्ध्योर्जातितदभावव्यवस्थापकत्वलक्षणा. दित्यर्थः । तमेव स्फुटयति तथाहीति । ननु भ्रमणादीनां जातिरूपत्वेऽपि न विभागव्याघातः भ्रमणत्वादीनां गमनविशेषत्वस्याये व्युत्पादनी- यत्वात्, गमनभित्वे चोपाधिरूपत्वेऽपि उत्क्षेपणादिपञ्चकानन्तर्भा- वात् विभागव्याघातस्तुल्यः, तस्माद्भ्रमणत्वादे: स्वरूपाख्यानपरोऽयं न्यायलीलावतीप्रकाश विवृतिः अनुक्तोपालम्भमाशंक्याह उत्क्षेपणादीनीति | जातितदभावेति । जातिव्य वस्थापकत्वतद्भावलक्षणादित्यर्थः | संप्रदायविद इत्यस्वरसविभावनम् । तद्बीजन्तु उत्क्षेपणादिचतुष्टयं तावत् परस्परविरुद्ध धर्मवत्वमनुभव- सिद्धं तदन्यकर्मत्वलक्षणगमनत्वमपि तद्विरुद्धमेवेति परस्परविरुद्धान पंचोपाधीनादाय मूलकृता कर्माणि गणितानि । एवञ्च भ्रमणत्वादीना. ( १ ) सम्भवात् इति प्रा० पु० पाठः | ( २ ) अत्र न्यूनाधिकत्वाभ्यामिति मिश्रस्त्रम्मतः पाठः ।