पृष्ठम्:न्यायलीलावती.djvu/७५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावती , झात् (१) । अपवरकादपवरफान्सरं व्रजति च निष्कामति प्रविशति इति प्रत्ययान्न निष्क्रमणत्वाद्यपि । अत एव च न रेचनत्वम् तस्य निष्क्रमणात्मकत्वात् । न च स्पन्दनम्, न चोर्ध्वज्वलनम्, उत्क्षे- पणस्यैव तेजः सम्बन्धिनस्तादृशत्वात् । अत एव च नोन्नमनम्, तस्य निष्क्रमणात्मकत्वात् । पतनं च न तस्यावक्षेपणात्मक- त्वात् । अत एव न नमनम् । अनृजुसंयोगजनकत्वात् तिर्य- ग्गमनमध्याकुञ्चनमित्याद्यूह्यम् | न्यायलीलावतीकण्ठाभरणम् स्वप्रवेशनस्वयोजतिरूपतामपाकरोति । अयमभिसन्धिः । अधःसंयो. गजनककमत्वं भ्रमणत्वम्, बहिःसंयोगजनककम्मत्वं रेचनत्वं तदेव निष्क्रमणत्वम्, अधःसंयोगजनक द्रव्यद्रव्यनिष्ठकमत्वं स्पन्दनत्वम्, एतच सर्वे गमनद्वारान्तरसामान्यम् । तथोन्नमनत्वमपि । पतनत्वनमनत्वे. चावक्षेपणावान्तरसामान्ये । तिर्य्यग्गमनत्वं चाकुञ्चनःवं न त्ववान्तरसा. मान्यमिति । जातित्वेऽपि न कर्म्मत्वसाक्षाद्व्याप्यजातित्वमिति | ननू. न्यायलीलावतीप्रकाशः संयोगजनकनानाजातीयनानाकर्मत्वं भ्रमणत्वम् । नहि भ्रमण मेक कर्मात्म कमेव, एकस्मिन् क्षणे भ्रमत्यलातचकमिति प्रतीत्यापत्तेः । भ्रमण त्वस्य जातित्वं निराकृत्य निष्क्रमणत्वादेस्तन्निराकरोति अपवरकादिति । निष्क्रमणत्वादत्यिादिपदेन प्रवेशनत्वपतनत्वसङ्ग्रहः | तस्येति | नि ष्क्रमणस्य गमनविशेषत्वेन व्युत्पादनीयत्वादित्यर्थः । न च स्पन्दनमितिं तस्य निष्क्रमणात्मकत्वादिति हेतुरनुषञ्जनीयः । अतएवोत्क्षेपणात्म- कत्वादित्यर्थः । तिर्यग्गमनस्याकुञ्चनत्वे हेतुमाह अनृजुसंयोगेति । ननु तिर्यग्गमनं नाकुञ्चनं स्वावयवाभिमुखक्रियायाः आकुञ्चनात्मकत्वात् । अत्राहुः । यत्र तिर्यपतनं निःक्रियाभिमुखं तत्र तस्याकुञ्चनत्वम्, न्यायलीलावती प्रकाश विवृतिः पूर्वत्र तृतीयं नानापदं भ्रमणत्व समुदाय पर्याप्तत्वलाभार्थमित्येके | नाना- जातीयनानापदयोरख्यतरान्तर्भावेन लक्षणद्वयमित्यन्य हेतुत्वभ्रमनिरासायाह तिर्यग्गमनस्येति । अन्यत्र वाद्यादाविति । यद्यपि (१) सङ्करभयात् इति प्रा० पु० पाठः ।