पृष्ठम्:न्यायलीलावती.djvu/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाश

अन्त्यानां स्थितिः व्यवस्था श्लाघ्या प्रशंसाविषयः । अन्यत्र विशेषस्योत्कर्षस्य स्थितिस्तादृशी । एकत्र गुणादिभिर्गुण्यादेर्यः सहजः सम्बन्धः समवायो ग्रन्थप्रतिपाद्यत्वेनाऽस्ति । अन्यत्र प्रागुक्तगुणैः सम्बन्धः सहजः अकृत्रिमः स्वाभाविकः। श्रवणादनु पश्चादीक्षणमन्वीक्षा मननहेतुर्न्यायः, स एव नीयतेऽनेनेति व्युत्पत्त्या नयः शास्त्रं तस्य वेश्म, तस्य न्यायाधारत्वात् । तस्य कर्म परिकर्म दूषणनिरासादि, तत्र कुशला दक्षा । नय इत्यत्र श्रिणीभुवोऽनुपसर्ग इति धञि प्राप्ते कृत्यल्युटो बहुलमिति बाहुलकात् एरजित्यच् ।

 इह पदार्थानां सामान्यतः प्रयोजनसम्बन्धेऽवगते के ते इति विशेषाकाङ्क्षायां द्रव्यगुणेत्यादितद्विशेषाभिधानमेतावन्त एव पदार्था इत्यवधारणपरविभागार्थकम् । सामान्यजिज्ञासायां तद्विशेषवचनस्येतरव्यवच्छेदपरत्वेन व्युत्पत्तिसिद्धत्वात् । तच्च न यद्यपि शब्दविधया विभागे मानम् , युक्तिशास्त्रत्वविरोधात्, मानान्तरात्तत्प्रतिपादने च परीक्षायास्तत्परत्वावश्यकत्वे तत एवन्यूनाधिकसङ्ख्याव्यवच्छेदः सिद्ध इत्येतस्याऽपि तत्र तात्पर्ये मानाभावः सामान्य

न्यायलीलावतीप्रकाशविवृतिः

 ननु षडेवेत्यस्य सूत्रस्य भाष्यस्य वा अभावाद्विकल्पोऽयमाश्रयासिद्ध इत्यत आह-इहेति । सामान्येति।कियन्त इत्याकाङ्कायां विशेषाभिधानस्य तदितरविशेषनिषेधप्रत्यायकत्वव्युत्पत्तरित्यर्थः। कियन्तो घटा इत्याकाङ्क्षायां चत्वार इत्युक्ते पञ्चमाभावप्रतीतेरिति भावः । सामान्यधर्मावच्छिन्नस्य विशेषाकाङ्क्षेति सामान्येत्युक्तम् । तत्र च तात्पर्यविषयावधारणविकल्पोऽयमिति भावः। युक्तीति । शब्दादेव तत्सिद्धौ पदार्थान्तरनिरासकयुक्त्यननुसरणापत्तेः । तथा च तादृशव्युत्पत्तिः प्रकृते असिद्धा तन्मूलीभूतस्य तथाविधवक्तृतात्पर्यानुमानावश्यम्भावस्याग्रे युक्तिसहस्रदर्शनबाधितत्वादिति भावः। मानान्तरात् परीक्षाप्रयोजकमानान्तरात्। परीक्षाया इति। एवं च परीक्षायास्तत्परत्वावश्यकत्वे तन्निर्वाहकप्रमाणादेव व्यवच्छेदप्रत्ययोपपत्तौ विभागवाक्यस्यापितत्र तात्पर्यं कल्पयित्वातनिर्वाहकं च मानान्तरकल्पनमपिगौरवपरास्तमित्यवधेयम् । ननु परीक्षया कथं तत्सिद्धिरत आह-सामान्येति । सामान्यलक्षणस्यातिव्याप्तिनिरासेऽधिकसमयाव्यवच्छेदस्य विशेषलक्षणानाञ्च परस्परसङ्कीर्णत्वव्युदासे न्यूनसङ्ख्याव्यवच्छेदस्य लाभा-