पृष्ठम्:न्यायलीलावती.djvu/७६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्याय लीलावती श्रवणादिकम् न चैरुद्रूपचतुष्कचालितातद्विरहाभ्या(१)मन्यः प्रकारः लम्भवतीति पञ्चैक कर्माणीति ।। इति लीलावत्यां कर्मविचारः । न्यायलीलावतीकण्ठाभरणम् गव्याघात इत्यत आह - एतदिति । न्यायलीलावतीप्रकाशः न्धः उपाधिपञ्चकेनापि विभागनिर्वाहादित्यर्थः । भ्रमणेति । नचैवं ना. नाजातिलिद्धावपि गमनत्वमेकं न सिदिति वाच्यम् । जाति ग्राहकमानेन लाघवसाचिव्यादेकस्या एवं सिद्धेः । न्यायलीलावतीप्रकाशविवृतिः क्षणसूचनार्थ वा । क्वचित्तु अभिमुखेति पाठस्तत्र विरुद्ध पदं] [भिन. परमिति पूर्वोक्त एव पर्यवसानमिति दिक् | उपाधिपञ्चकेनापीति | उपा- घिघटितेन पञ्चकेनेत्यर्थः । अन्यथा गमनत्वस्याये जातित्वव्युत्पाद- नाद्विरोधापत्तेः । नानेति । भ्रमणत्वादिजातिसिद्धावपीत्यर्थः । जातीति । अनुगतमत्या गमनपदशक्यतावच्छेदकत्वेन वा तल्लिरित्यर्थः । अत्र जातिपञ्चकनैव विभागः प्रतीतिबलसिद्धासु तासु संयोगत्वादौ कार्यतावच्छेदकत्वस्यापि कल्पनादित्येकः कल्पः । अथ वा गमनत्वं जातिरन्यच्चतुष्टयमुपाधिरिति द्वितीयः । वस्तुतो गमनत्वजातिलाधि का प्रतीतिरेव वाच्या, ला चोत्क्षेपणादिसावारणी । कर्मचतुष्टयाज. न्यसंयोगत्वस्य कार्यतावच्छेदकत्वे मानमेव नास्ति, येन तदनुरोधा त्ला जातिः स्यादित्युपाधिपञ्चकेनैव विभागः स्वतन्त्रेच्छाया नियम नाभावात् | उपाधिचतुष्टयं च पूर्वनिरुक्तमेव, तद्भिन्नकर्मत्वमेव त्र गमनत्वम् | न च तत्राप्यूर्द्धाधःक्रमेण विकाशे उत्क्षेपणावक्षेपण. स्वप्रसारणत्वानां सामानाधिकरण्येन कथं तेषां विभाजकत्वमिति दोष इति वाच्यम् । परस्परव्यभिचारिभिरिवोपाधिभिर्हेत्वाभासवि. भागवद्विभागसम्भवादिति भाति । ( २ ) चतुष्टयताद्वराभ्यामिति प्रा० पु० पाठः |