पृष्ठम्:न्यायलीलावती.djvu/७७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ६९१ त्वमिति प्रतीतेश्च । न द्वितीयः, षट्पदार्थातिरिक्त पदार्थास्वी- - कारात् । असत्येव सम्बन्धे आनुमानिकसम्बन्धबुद्धिजन कं (१)रूपमैववमिति चेत् । न । तथा सति सर्वत्रानुमानेऽनाश्वा सापत्तेः । न तृतीयः, तद्व्यतिरेकेणैव घटादावपि तद्वद्धयमा वात् । स्वव्यतिरेकेणापि बढस्यानुपलम्भो न तु सामान्यस्य कस्यचिदिति चेत् । न । नित्यतैषा न सर्वगतता । ततो गोव्य- क्तिभिन्नपिण्डेऽप्यसवेन न सर्वगतत्वमिति सर्वमनाकुलमिति । सामान्यं द्विविधं परमपरं च । तत्र परं सत्ता । नन्विद- न न्यायलीलावतीकण्ठाभरणम् भेदात्, यथा कालस्याभेदेऽपि वर्त्तमानादीनां भेद इति । षट्पदार्थेति । सम्बन्धान्तरस्य परिगणितपदार्थेऽन्तर्भावादित्यर्थः । नन्वनुत्पन्नायां गवि तत्रास्य सामान्यं कथं समवेयादिति तद्देशादौ तत् सम्बन्धोs- नुमीयते, न तु तत्र परमार्थतः सम्बन्धो देशस्यापि गोत्वापचेरित्याह- असत्येवेति । तथासतीति । अनाभासमनुमानमसदपि यदि विषयकुर्य्यादि. त्यर्थः । तद्व्यतिरेकेणैवेति । तदितरोपलम्भकस्यालोकादेर्व्यतिरेकेणेत्यर्थः । नित्यतैषेति । यद्यपि महिषादौ न गोत्वव्यतिरेकप्रयुक्तस्तद्नुपलम्भः किन्तु सास्नादिव्यतिरेक प्रयुक्त इति व्यापकतैव पर्थ्यवस्येत, तथापि नाइवे गोत्वमित्यबाधितप्रत्ययाद सर्वगतत्वमित्यर्थ इति भावः । न्यायलीलावतीप्रकाशः त्वादित्यन्ये । घटेतरसहकारिविरहेऽनुपलम्भस्य घटादावपि तुल्यत्वा. दित्याह तव्यतिरेकेणैवेति । यदि प्रमाणग्राह्यत्वमेव सत्वं स्यात्तदा प्रमित्यविषयत्वदशायां न्यायलीलावतीप्रकाशविवृतिः ही 'ति न्यायेन विशेष्यवति विशिष्टामावोऽपि विशेषणविरहपर्यवसन्न एवेति पूर्वकल्प एव पर्यवसानमित्यरुच राह-अन्य इति । प्रमाणप्राह्यत्व. मिति । प्रमाणजन्यज्ञानोपहितत्वमित्यर्थः । तेन नेश्वरज्ञानमादाय ( १ ) जनकत्वरूप - इति सु० पु० पाठः ।