पृष्ठम्:न्यायलीलावती.djvu/७७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ६९३ वैचित्र्यानुपपत्तेः | भावव्यवहारगोचरस्य भावस्यैव सत्तास्व- भावत्वात् । ममित्वम् भावव्यवहारगोचरो भावावरोधित्वं चा भावव्यवहारगोचर इति चेत् । न । अभावव्यवहारगोचरस्य (१) प्रमितत्वेन विरुद्धभावाभावव्यवहारप्रसङ्गात् । भवत्येवेति चेत् । न । घटाघटादिव्यवहार मर्यादया निषेध्यनिषेधव्यवहारयोः परस्प- न्यायलीलावतीकण्ठाभरणम् याः किमायातमित्यत आह भावव्यवहारेति । अभावव्यवहारेति । यदि प्रमि- तत्वमभावाद्यावृतं स्यात्तदाऽलाधारण्येन भावव्यवहारं जनयेन्न त्वे. वमित्यर्थः मितत्वोपाधिनिबन्धनमेव विरुद्धभावाभावव्यवहार. प्रसङ्गमापादयति विरुद्धेति । आशयमविद्वानाह भवत्येवेति । आशयमु. दूद्घाटयात घटाघटेति । यथा घटाघटव्यबहारो नैकसामान्यनिबन्धन न्यायलीलावतीप्रकाशः समवाये चानवस्थाभिया समयायानङ्गीकारेऽपि स एव समवाय- स्तथ वर्त्तते । न चैत्रमननुगमः, वृत्तीनां भेदेऽपि समवायस्यैकत्वात् । न चाभावेनापि लमं तस्य यथाकथंचित्सम्बन्धोऽस्तीति वाच्यम् | उ क्तत्रयेण नियमादिति सम्प्रदायविदः। भावविरोधित्वं द्रब्यत्वादिषट्का त्यन्ताभाववत्वमित्यर्थः । अभावत्वमनुगतमज्ञात्वापि अत्यन्ताभाव- व्यक्तिविशेषस्य प्रमितत्वात् । यदि च भावव्यवहारगोचरः प्रमि तत्वं, तर्हि तत्रापि, तथाच तत्त्वमभावव्यवहारगोचर इति वदतो व्याघातापत्तिरभावस्यापि प्रामेतत्वादित्याह अभावव्यहवारविषयस्थेति । न्यायलीलावतीप्रकाशविकृति: उक्तेति । तथाच यत्र सत्तायाः सम्बन्धे समवायाः पतति स भाव इति भावः । ननु विरोध: सहानवस्थानं भावसामान्येन सहासम्भवि, प्रतियोगिपरत्वेऽपि भावपदस्यान्योन्याभावाव्याप्तेः, वध्यघातकत्वं च विरोधोऽत्र न सम्भवत्येवेत्यत आह द्रव्यत्वादति । ननु भावत्वा. 'ज्ञानेऽत्यन्ताभाववत्वमपि दुर्ज्ञेयमत आह अभावत्वमिति । तर्हि तत्रापि अभावेऽपि, एतदनन्तरं तथाचेति शेषः । तत्त्वं भावविरोधित्वम् । क्वचिद्विरोधित्वमिति पाठा, ल सुगम एव । अत्राभावानुभाने विपक्ष (१) विषयस्य- प्रा० पु० पाठः म० अ०