पृष्ठम्:न्यायलीलावती.djvu/७७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भाविता ६९९ , सामान्यविशेषसमवायवदाभिन्नव्यवहारगोचरत्वम्, सर्वत्र सामा- न्योच्छेदप्रसङ्गात् । सामान्यादौ चारोपितसत्ताबळेनैव तदु पपत्तेः । अपरं द्रव्यत्वादि (१) | न्यायलीलावतीकण्ठाभरणम् व्यत्वगुणत्वक मैत्वानि जातिव्याव्यानि जातिमनिष्ठात्यन्ताभावप्रति योगित्वाद घटवत् | न चाप्रयोजकत्वम, सदाकारबुद्धीडियसाधार- ण्यात्, अन्यथा अनुपपत्ते रिति भावः । ननु यथा सामान्यानां विशे पाणां चानुगमः सामान्यमन्तरेण तथा प्रकृतेऽपि स्वादित्यत आह नचेति । समवायग्रहणं सम्पातायातम् । तर्हि गोत्वादिकमपि त्वदभ्युप. गतं न स्यादित्यर्थः । ननु भावबुद्धिवैचित्र्यानुरोधात्तदा सत्ता अभ्यु. पेयेत यदि ला तत्र वर्त्ततेत्यत आह सामान्यादाविति । तदुपपत्तेः - भाव. न्यायलीलावतीप्रकाशः ध्याप्रसिद्धिः | मैवम् | रूपादयो द्रव्यवृत्तिजातिमन्तः जातिगत्वात् घटवत् । न च द्रव्यत्वमुपाधिः, उक्तविपक्षबाधकाद्धेतोः साध्यव्याप्य त्वेन तद्व्यापकतया साध्याव्यापकत्वात् । यद्वा द्रव्यत्वादीनि जाति व्यायानि जातिमनिष्ठात्यन्ताभावप्रतियोगिजातित्वात् घटत्ववदिति विवक्षितत्वात् । न्यायलीलावतीप्रकाशविवृतिः मिति । द्रव्यत्वादिकमादायेति भावः । न च लाघवसाहित्यादेकसा. मान्यसिद्धिरिति वाच्यम् । तस्य कल्पनीयत्वनैकत्वलाघवानादरा- दिति भावः । रूपादय इति । आदिपदग्राह्यं कर्म, तथाच लाघवाचित- यवृत्तिरेकैव जातिः सिद्ध्यतीति न द्वयवृत्तिजात्याऽर्थान्तरं कल्प- नीयतायास्तुल्यत्वात् । न च गुणकर्मद्रव्यैकदेशवृत्तिजात्याऽर्थान्तरं द्रव्यत्वेन सङ्करापत्या बाधात् । यद्वेति । व्याप्यत्वं भेदगर्भमतो नार्थ- न्तरम् | जातिवादौ व्यभिचारादन्तिम जातिपदम् | अनबस्थावाच. कत्वेन सामान्यसिद्धव्यभिचारवारकत्वेन वा प्रथम विशेषणसार्थकता, निर्विकल्पकानुमाने विशिष्टपदवत् । रजतत्व कलशत्वपोरपि द्रव्यत्वादा. ( १ ) त्ते:- ननु इति प्रा० पु० पाठः ।