पृष्ठम्:न्यायलीलावती.djvu/७७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६६ म्यायलीलावती ननु परापरव्यतिरिक्तमपि सामान्यमस्तु रजतत्व कलशत्त्रत्र- त् । न । परस्परपरिहारवतोः सामान्ययोः समावेशे तदतज्जा- तीयविरोधोच्छेदापत्तेः । कलशजातीयं च रजत सामग्यपेक्षकार- • न्यायलीलावतीकण्ठाभरणम् बुद्ध्युपपत्तेः । परापरव्यतिरिक्त मपीति । परस्परात्यन्ताभाव समानाधिकरणयोरपि जात्यो सामानाधिकरण्यमस्त्वित्यर्थः । तदतज्जातीयेति । गोत्वा गोत्वयोः समावेशे गवाश्वाकार एक एव पिण्डः म्यान च तथास्ति, तथाच न समावेश इत्यर्थः । यदि रजतत्वकलशत्वयोः समावेशस्तदा गोत्वा. श्वत्वयोरपि कदाचित् स्यात् । यत्तु करस्थितपिण्डानुपलम्मान तथा तदा इदानीं तथा दर्शनाभावेशप कदाचित् प्रक्ष्यत इत्यत आह कळशजातांयं चेति। तथापि न समावेशः, किन्तु रजतत्वादिव्याप्यं भित्र मेव कलशत्वं संस्थानविशेषवृत्ति च न कलशत्वं महान्नीलो घट. चलतीति प्रतीत्या द्रव्यत्वसिद्धेः । किंच संस्थानवृत्तित्वेऽपि अन्यतर- न्यायलीलावतीप्रकाशः 9 3 परापरव्यतिरिक्तमपीति । परापरभाव विनापि सामान्य मास्त्वित्यर्थः । रजतेति । ननु संस्थानवृत्येव घटत्वं न द्रव्यवृत्तीति न तयोः समावेशः । संस्थानं ह्यवयववृत्तिः संयोग एव, युक्तं चैतत् कथमन्यथा तस्मिन्नव • रजते तत्संस्थानसत्वासत्त्वाभ्यां घटतदभावव्यवहारः | मैवम् । तत्रा- व्यन्यतरकर्मजत्वादिना सङ्करप्रसङ्गात् कथमन्यथा तस्मिन्गुणगत. जातौ सङ्करो न दोष इति तु निर्वोजमेव वैजात्यमेवेति । नन्वेवं तन्तुपटयोरिव घटरजतयोरभेदानुभवः कदापि न स्यात् । अत्राहुः | रजतत्वादिव्याप्यं नानैव घटत्वम् । न चैवं रजतादिघटे धनुगतव्यव हारो न स्यात् घटत्वस्य रजतादिप्रत्येकविश्रान्ततया व्यक्तिस्थानी. यत्वादिति वाच्यम् । तादृसंस्थानवत्त्वेनोपाधिना तथा व्यवहारात् । न्यायलीलावती प्रकाशविवृतिः ह परांपरेति । परस्परपरायरेत्यर्थः । ननु करम्बिता कारवस्तूपलम्भापत्ति- स्ता दृशजाति द्वय बाधिका, सा व गुणगतजातो नास्त्येव, गुणस्य निराकारत्वादत आह गुणगतजाताविति । एतज्जातीयताविरोधिभङ्गप्रस