पृष्ठम्:न्यायलीलावती.djvu/७७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-पत्रिवृतिप्रकाशोद्भासिता ६९७ णजन्यं तन्त्रिपक्षकारणजन्यं वा ? आये रजनसामग्रीविरहिणि क नककलशे नास्त्येव रजतलगत्वमिति परापरभाव एव | द्वितीये तु स्वतन्त्रसामग्रीमतयोः जनकलशयो जात्यमेव तन्तुपटवत् | उभयथापि न नियमविरोध अस्तु वा पगपरव्यतिरिक्तमपि तृतीयम् तथापि न काचिन्नतिः । तथाच समुच्चये चकारः न्यायलीलावतकण्ठाभरणम् तु कमजनचादिना परापरभावानुपपत्तिमनदस्थैव, अन्यतरकर्मजत्वा. दिव्यायनानाकम्मसन्ताङ्गीकारेऽपि तु रजतत्वादिव्याप्यतॆव स्वीकि यतां तेन रूपमहत्वादिसामानाधिकरण्यधीरप्युपपादिता स्यात् । यद्वा संस्थानविशेषैकार्थसमवायि द्रव्यत्वमेव घटत्वम् | न नियमविरोध इति । परापरभावापने एव जाती समाविशत इति यो नियमस्तद्विरो श्रो नास्तीत्यर्थः । तृतीयमिति । सामान्यमिति शेषः ! तथा भूतत्वमूर्त्तत्वे अपि जाती एवेति भावः । नन्वनभ्युपगमवादोषि युक्यासासमपेक्षत इत्यत आह तथाचेति । समुच्चयार्थ इत्यतो समुश्वयार्थ इत्यर्थः । न्यायलीलावतीप्रकाशः तर्हि संस्थानवृत्येवान्यतरकर्मजत्वादिव्याप्यं नानैव घटत्वमस्तु तन्नानात्वस्याचश्यकत्वात्, एवं संस्थानविशेषान्वयव्यतिरेकानुविधा नमपि घटत्वव्यवहारस्य संगच्छत इति चेन्न । महान्नीलो घटश्चलती. ति परिमाणरूपविशेषकर्म सामानाधिकरण्येन घटत्वानुभवात् । न च गुणात्मक संस्थाने तत्सम्भवः । यद्वा संस्थानविशेषैकार्थसमवायिद्र. न्यायलीलावतीप्रकाशविऋतिः कृविपक्षबाधकस्य समानत्वादिति भावः । तथाच महान्नीलो घटश्च लतीतिप्रतीतेद्रव्यवृत्ती एव ते जाती इति रहस्यम् । ननु घटत्वस्वी. कारे मानाभावः अनुगतमतेरन्यथैवोपपादनीयत्वादत आह यद्वेति । संस्थानस्यावयववृत्तित्वादाह एकार्थसमवायीति । कपालरूपादावतिप्रसङ्ग वारणाय द्रव्यपदम् । संस्थाने च विशेषो वैजात्यमेवानुभवसिद्धम् । न चान्यतरकर्मजत्वादिना तत्रापि सङ्करः । अन्यतरकर्मजत्वादेरेव नानाभूतस्य स्वीकारात्, अनुगतव्यवहारस्तु तेष्वन्यत्तर कर्मजत्वो- पाघिनैव । नचैवं तदेव वैजात्यं घटत्वमस्त्विति वाच्यम् । महत्त्वादि ८८ न्या०