पृष्ठम्:न्यायलीलावती.djvu/७८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- - सविवृतिप्रकाशोद्भासिता ७०५ स अन्यत्रैव सम्वन्धवोधमान्न तृतीयः (१) । कचिदपि स- म्वन्धप्रन्ययानुपपत्तेः | अमत्येव सम्बन्धेतीयत्वमनुभूयत इति चेत् । न । जात्यादेरप्यसत्यंत्र सम्बन्धं तदीयत्वानुभवप्रसङ्गात् अमत्ख्यानिममङ्गाच्च । सम्बन्ध (स्व) रूपमात्रमेव मथते (२) तस्य च जातिव्यक्तिभ्यां निरूपणात्तदीयत्वव्यपदेश इति चेन्न । जातेरपि व्यक्तिनिरूपणीयत्वात्तदीयत्वेन व्यपदेशोपपत्ते: (३), न्याय लीलावतोकण्ठाभरणम् यसम्बन्धमन्तरेण तदीयबुद्धरभावात् । अन्यत्रैवेति । यदीयत्वेन सम्ब- न्धो भासते तत्रैवेत्यर्थः । क्वचिदपीति | यदि सम्बन्धः स्वरूपेण भासते तदा कुत्रापि विशिष्टप्रतीति न कुर्य्यादित्यर्थ: । असत्यबति समवा यसम्बन्धेऽसत्येवेत्यर्थः । जात्यादेरिति । तर्हि असत्यपि जात्यादौ तदीयत्वव्यवहारसम्भवादित्यर्थः । असदिति । सम्बन्धमन्तरेणापि तत्प्रत्ययस्य भ्रमत्वापत्तेरित्यर्थः | असम्बद्धोऽपि समवायो येन निरूप्यते तत्रैव स्वोपरक्तप्रत्ययं करोतीत्यस्य स्वभाव इत्यत आह- सम्बन्धरूपेति । जाँतरपीति । सम्वन्धमन्तरेणैव निरूपकस्वोपरक्तप्रत्ययार्धान न्यायलीलावतीप्रकाशः विशेषणत्वेन भासते तस्य प्रथममज्ञानात्, संयुक्ताविमावितिवत् समवायिनाविमावित्यननुभवाच्च । नापि विशेष्यत्वन, अनयोः सम वाय इत्यननुभवाद | नापि स्वरूपेण, समवायं जानामीति विषयत: याऽननुभवादिति । तदीयत्वमिति | समवायस्येति शेषः । जातेरपीति । न्यायलीलावतीप्रकाशविवृतिः पताइशी प्रतातिरुभयसिद्धा नास्त्येव. या चास्ति रूपवानित्याकारा तस्यां विशेषणत्वेन समवायस्य विषयत्वे समवायिनाविमावित्युल्ले ख/पत्तिरिति भावः । एत्रमंत्रऽपि न स्वरूपेणास्य न विशेषणत्वेन नापि विशेष्यत्वेनेति शङ्कितुरसिप्रायस्तथा भानञ्चासम्भवि उभयथैव भा. नानभ्युपगमादिति | स्वरूपेणत्यस्यान्यानुपधानेनेत्यर्थ कल्पायत्वा दूषयति समवायमिति । ननु समवायरूपसम्बन्धान्तरमभ्युपेयत एवे. (१) नेतरः - प्रा० पु० पाठः । (२) प्रतीयते० प्रा००पाठः । (३) व्ययदेशापत्ते रिति मु०पु०पाठः ।