पृष्ठम्:न्यायलीलावती.djvu/७८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती सम्बन्धे च दृश्यसम्बन्धानुपलम्भे नायमेनदीयः सम्बन्ध इति प्रतीतिप्रसङ्गाञ्च | सत्ता (नीलत्व) नीलगुणद्रव्याणां च समत्रा- येनै कसंवेदन गोचराणां कस्य केन समत्राय इति व्यवस्थानुप- पचेः । नानुमानम्, लिङ्गाभावात् । इहेतिबुद्धिर्लिङ्गमिति चेत् । 1 समवायाप्रत्यक्षत्वे इहेतिबुद्धेर्निविषयाया अनुष- पवे: (१) | आघाराधेयभावाख्यं सम्बन्धान्तरमेव तद्गोचर इति चेत् । न । दूषितस्त्रात पदार्थान्तरस्वीकारप्रसङ्गाच्च । अत एवंदेति प्रत्ययोपपत्तौ समवायाननुमानप्रसङ्गाच्च । जात्यादिवि न्यायलीलावतीकण्टाभरणम् स्वाभाव्यं यदि समवायस्य कल्प्यते तदा जात्यादावप्येवमस्तु किं मवायेनापीत्यर्थः । किञ्च समवाय सम्बन्धश्चेन्नास्ति तदा नायमे तदीय इत्येवं कथं न स्यादित्याह- - सम्बन्ध इति । स नीलो घट इत्यत्र समवायश्चेदक एव तदा सत्ताया नीलगुणस्य घटस्य च घटनिष्ठतथैव भानमिति नियमो न स्यादन्यथा मानं स्यादित्याह सत्तेति । इहेतिबुद्धिरिति । इह तन्तुषु पट इति बुद्धिः सम्बन्धनिमित्ता रहेतिबुद्धित्वादिह कुण्डे बदरमिति बुद्धिषदित्यर्थः । समवायेति । वैशेषिकमते इहेतिबुद्धेर्विषय एव दुर्वच इत्यर्थः । दूषितत्वादिति | आधारे वा इहबुद्धिराधेये उभय एव वेत्यादिना दूषितत्वादित्यर्थः । पदार्थान्तरेति । इहबुद्धेर्विषयस्य समवायमिन्नस्य पदार्थान्तरस्य स्वी कारप्रसंगादित्यर्थः । जात्यादीति । विशिष्टप्रत्ययस्य विशेषणविशे- ष्यसम्बन्धमन्तरेणानुपपत्तेरित्यर्थः । यथा अभावभूतलयोर्ज्ञानशेय. योर्वा विशेषणविशेष्यभावः सम्बन्धस्तथा जात्यादावव्यवश्यमभ्युप न्यायलीलावतीप्रकाशः तथाच न तद्विशिष्टज्ञाननिमित्तया समवायः सिद्ध्येदित्यर्थः । इहेतिबुद्धिः समवायविषयत्वेन तत्र लिङ्गम्, अन्यविषयत्वेन वा? आद्यं निराकरोति समवायेति । अन्त्यमाशय निराकरोति आधाराघेयेति । ( १ ) अनुत्पत्तेरिति मा० पु० पाठ ।