पृष्ठम्:न्यायलीलावती.djvu/७८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविकृतिप्रकाशोद्भासिता ७०७ शिष्टप्रत्ययो लिङ्गमिति चैन्न । विशेषणविशेष्यभावस्य सम्ब न्धान्तरस्य स्वीकारमसङ्गात् । नत एव विशिष्टवोघोत्पत्तो (१) समवायाननुमानप्रसङ्गाच्च । उभयाश्रयस्य च सम्बन्धस्याभिन्न- रूपस्यैकत्र विशेषणमन्यत्र विशेष्यमिति विलक्षणप्रत्ययजनक्र- स्वानुपपत्तेः । प्राधान्यं विशेष्यत्वं गुणत्वं विशेषणस्वमिति चैन । तयोरनिर्वचनात् ( २ ) | असन्येव सम्बन्धे विशेषणविशे- व्य प्रत्ययगोचरत्वं तत्रमिति चेत् । न । असत्ख्यातिप्रसङ्गात् । विशिष्टव्यवहारजननयोग्यं ज्ञानमेव विशेषणविशेष्यभाव इति चेत् कः पुनर्विशिष्टव्यवहारः प्रतीतिर्वा व्यपदेशो वा १ नायः | तस्या असद्विषयत्वे (न) (३) अमत्ख्यातिप्रसङ्गात् । सद्वि- षयत्वे तु सम्बन्धान्तरस्वीकारमसङ्गात् । न द्वितीयः । स हि न्यायलीलावतीकण्ठाभरणम् गन्तव्य इत्याह - विशेषणेति । अन्यथासिद्धिमाह ततएवेति । सम्बन्ध स्त्रोमयाश्रितत्वेऽपि गुणप्रधानभावकृतो विशेषणविशेष्यभाव इत्याह प्राधान्यमिति । तयोरिति । गुणप्रधान भावयोरित्यर्थः । ज्ञानमेवेति । ज्ञानवि शेषणं विशेष्यं च तत्सम्बन्धफलापकमित्यादिनोक इत्यर्थः । अषयत्व इति । असत्सम्बन्धविषयत्व इत्यर्थः । स होति । व्यपदेश इ. न्यायलीलावतीप्रकाश: विशेषणेति । दण्डो पुरुष इत्यादौ समवायानङ्गीकारे विशेषणविशेष्य सम्बन्ध पूर्वकत्वदर्शनादित्यर्थः । तथाच सति तेनैवार्थान्तरमिति समवायो न सिद्ध्वेदित्याह तत एवेति । सम्बन्घान्तरेति । वैशिष्ट्याख्येत्य. र्थः । अथ शब्दजातिरूपादिरिन्द्रिय सम्बद्धः प्रत्यक्षत्वादित्यनुमानात् न्याय लीलावतीप्रकाशविवृतिः त्यत आह वैशिष्ठयाख्येति । समवायस्यानियामकत्वादिति भावः । ( १ ) प्रत्ययोत्पत्ती-प्रा० पु० पाठः । ( २ ) उभयोरनिर्वाचनात - मा० ० पाठः | (३) सप्तम्यन्त एव पाठो मिथेन व्याख्यातः किंतु गु० प्रा० पुस्तकद्वये तृतीयान्त एव वृश्यते। {