पृष्ठम्:न्यायलीलावती.djvu/७९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्याबळीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता अघटं भृतळमित्यत्र घटाभावभूतलविपया बुद्धिविशेषादिव । कुतस्तर्हि सम्बधानुमानम् बुद्धिविशेषादेव विशिष्ट व्यवहारोपपत्तेः । न हि तथामति( १ ) विशिष्टव्यवहारजनकत्वेन सम्वन्धानुमानम्, अपि तु तव्यापकत्वेन | व्यापकत्वं च तस्य दृष्टान्त प्रतीतमेव (२) तद्भावेऽपि तद्वळेन सम्वन्धानुमानम् । तथासति ध्वंसस्य 4 न्यायलीलावतीकण्ठाभरणम् पलक्षणम् | कुत इति | बुद्धिविशेषणे वा अन्यथासिद्धीति | व्यापक. त्वेन तत्सिद्धिर्न तु विशिष्टप्रत्ययविषयत्वेन तज्जनकत्वेन वेत्याह नहि तथासतीति । एतादृशानिष्टप्रसंगभयेन तदन्यविशिष्टबुद्धित्वेन हेतु. विशेष्यस्तेन न व्यभिचार इति भावः । पूर्वविकल्पपक्षं परिगृह्णाति न्यायलीलावतीप्रकाशः संसर्गप्रकाशत्वमेव न चैवं घटव्यवहारोऽपि तत एव स्यादिति घटो Sपि न सियेदिनि वाच्यम् । घटस्य प्रत्यक्षत्वेन प्रत्याख्यातुमशक्य. त्वात्, समवायस्य चातीन्द्रियत्वात् । दृष्टान्तेति । सघरं भूतलमित्या. दो तथादर्शनादित्यर्थः । तद्लेन-विशिष्टव्यवहारबलेन, भूतलाभाव. योरपि समवायः सम्बन्धोऽनुमीयत इत्यर्थः । ध्वंसस्येति । अन्येषाम भावानामजन्यत्वादित्यर्थः । समवायिकारणवत्व इत्यत्र पाठे समवा यिकारणं यस्य तत्त्व इत्यर्थः । ननु विशिष्टव्यवहारो विशिष्टविषयकं न्यायलीलावतीप्रकाशविवृतिः यद्यप्यारोपिततत्त्वेऽपि समवायस्य तन्नियतत्वं साध्यं नास्ति, तथा पि सम्बन्ध्यात्मक एव तत्र सम्बन्धस्तत्र नियामक इत्यत्र तात्पर्यम् । केचित्तु गोत्वसमवायवानिति प्रतीतौ निर्विषयकेत्यादिहेतौ व्यभि चार इत्यत आह गोत्वसमवायेति । तथाच हेतौ बुद्धिपदेन लौकिकसा. क्षारकारत्वं विवक्षितमारोपस्य चानथात्वात्र तत्र व्यभिचार इति भाव इत्याहुः । तदयुक्तम्, समवायस्य तन्मते विशिष्टबुद्ध्यविषयत्वे- नारापासम्भवात् । विशेषोपादानतात्पर्यमाह अन्येषामिति । यद्यपि ( १ ) तथासनीति पुस्तकइये यद्यपि नास्ति किन्तु मिश्रसम्मतत्वामुद्रितम् | ( २ ) दृष्टान्तदृष्टमेव-प्रा० पू० पाठः !