पृष्ठम्:न्यायलीलावती.djvu/७९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती ध्यत्वं, व्यङ्ग्यन्वं च विशेषणन्त्रम् | नित्येषु च द्रव्यत्वं विशेष्यत्वं, गुणत्वं (च) विशेषणत्वम् | अभावेऽपि (१) तत्प्रतियोग्य विकरणत्वं विशेष्यत्वम् अभावत्वं च विशेषणत्वम् । , न्यायलीलावतीकण्ठाभरणम , विशेषणस्वामेति । जातेरिति शेषः । यद्यपि व्यक्तिज्ञानजन्यज्ञानविषयत्वं जातीनां न व्यङ्ग्यन्त्रं, समानसम्वित्सम्वद्यत्वात्, न वा व्यक्ति जन्यज्ञानविषयत्वम् अतीन्द्रिये तदसत्त्वात्, तथापि विशिष्टज्ञान- जनकज्ञानविषयत्वं जातीनां विशेषणत्वम्, प्रत्ययव्यावृत्त्यधिकरणत्वं च विशेष्यत्वं व्यक्तीनाम् । यद्वा समवायित्वे सतीति श्रोत्रियत्वव्यं. जकविशिष्टमातापितृयोनिजत्वादिव्यावर्त्तनायद्यपि समवायित्वम तीन्द्रियं तथापि जात्या सममगृहीता संसर्गन्वमतसिद्धत्वं वा द्रष्टव्य म् | द्रव्यत्वमिति । समवायित्वमित्यर्थः । गुणत्वमिति | समवेनत्वमित्यर्थः । तेन न सप्रतियोगिक विशेषणविशेष्यमावत्वविरोधः । तत्प्रति- योग्यधिकरणत्वं तत्प्रतियोग्यधिकरणत्वेन प्रतीयमानत्वम् अन्यो- न्याभावे च तदभित्रत्वेन प्रतीयमानत्वं आरोग्य निषिध्यत इति सि द्धान्तात् | अभावत्वमिति । एतश्च घटाभाववद् भूतलमित्यत्र द्रष्टव्यम् । न्यायलीलावतीप्रकाशः त्वे सतीति। तच्चायुतसिद्धत्वं, जात्या समम गृहीतासंसर्गत्वं वा । द्रव्यत्वमिति । यद्यपि द्रव्यत्वगुणत्वयोर्निः प्रतियोगिकयोः सप्रतियोगि कविशेषणविशेष्यात्मकत्वावरोधस्तथापि तयोः समवायिकारणत्वाव च्छेदकं (च) यद्रूपं तस्य सप्रतियोगिकत्वात्तयात्वम् | अभावे चेति । प्रति योग्याघारत्वेन प्रतीयमानत्वम्, अन्योन्याभावे च प्रतियोग्यभिन्न- त्वेन प्रतीयमानत्वं विवक्षितम्, सर्वत्रारोप्य निषिध्यत इति सिद्धा न्तात् | अभावत्वमिति । यद्यपि घटाभावद्भूतलमित्यत्रामावत्वं घटप्रति न्यायलीलावतीप्रकाशवित्रतिः तिस्थळ एतदुपन्यासादिति भावः । यद्रूपमिति । यद्यपि तदपि द्रव्य- त्वादिक मेवेत्युक्तदोषतादवस्थ्यम्, तथापि समवायिकारणतावच्छेद. कीवीशष्टं तव सप्रतियोगिकमिति भावः । यथाश्रुतस्य रूपात्यन्ताभाव- ( १ ) अभावे चेति प्रा० पु० पाठः प्रकाशकृत्संमतः ।