पृष्ठम्:न्यायलीलावती.djvu/७९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता ७१७ णारणं विशेषणत्वं विशेष्यत्वं वास्तीति । न्यायलीलावतीकण्ठाभरणम् ना चोत्पादविनाशशीलः, कथमन्यथा श्यामादिरूपानां नित्यत्वे श्यामं नष्टं रक्तमुत्पन्नमिति प्रतीतिव्यवहारौ, तथाच तयोः सम वायोत्पादविनाशांवव विषयः । तदेतदनुपपन्नम् - ताभ्यां समवाया. जुल्लेखात, अन्यथा गन्धाइयोडाप नित्याः समवायस्त्वनित्य इत्यपि वक्तुं सुकरं स्यात् । मट्टमते तु वैशिष्टचं भावाभावसाधारणं सम्ब. न्धः समवायस्तु नास्त्येवेति । तदपि घटवति पटाभाववति घटा. भावव्यवहारापत्तेः वैशिष्ट्यस्य एकत्वात् | समवायप्रतिबन्दिग्रहस्नु प्रत्यक्षमानमयूखे द्रष्टव्यः | लु , न्यायलीलावतीप्रकाशः त्वेनैव वायुमनः संयोगवत् साधनीयम्, लाघवाश्चैक एव समवायः विशेषणविशेष्यशब्दों चेति अयमभ्युपगमवादः । व स्तुतो (१) यदन्विततया ज्ञात एव विशेष्ये तात्पर्यविषयीभूते. तरान्वयधीस्नह्यवच्छेदक विशेषणम् उपलक्षणन्तु नैवम् उप लक्षणानवच्छिन्नेप्युपलक्ष्ये तात्पर्यविषयीभूतान्वयबोधात् । इदमेव कार्यान्वयि विशेषणम् अतदन्वय्युपलक्षणम्, एतस्यार्थः ययावर्त्तकं विशेष्यान्वायनान्त्रीयतेतद्विशेषणम्, यन्नान्वीयते तदुपलक्षणम् । , प्राभाकरास्तु एकत्र घटादाबामपाकशायां श्यामरक्तरूपोपल म्भोस्ति स न तद्वयनिवन्धनः रूपस्य नित्यत्वेनैकत्वेन चैकदोप लम्भापत्तेः, तस्मात्तयोः सम्बन्धस्यैवोत्पत्तिविनाशौ स एव सम न्यायलीलावतीप्रकाशांववृतिः सत्वादीति | समवेतत्वासमवेतत्वादिनिवन्धन इत्यर्थः । आदिपदेन च समवायिकारणत्वनिबन्धन विशेष्यत्वव्यवहारसङ्ग्रहः । वस्तुतः प्र. तीतेत्यादिफक्किका अत एवारभ्य कदाचित् समवायनिबन्धनः कदा- चिदमिसम्बन्धानुपलम्भनिबन्धनो विशेषणविशेष्यत्वब्यवहार इत्ये. वमर्थकत्वेन मूलव्याख्या सम्यगिति । ननु पटरूपयोः समवायो ना. तीन्द्रिय इत्यत आह लाघवाचेति । लाघवसहकृतानुमानादित्यर्थः । शाब्द एव ज्ञाने विशेषणत्वादिविचारस्य प्रायिकत्वात्तदभिप्रेत्याह प. ( १ ) अत्र पदार्थतया शत पाठो विवृत्तिकर्तुरभिमतः ।