पृष्ठम्:न्यायलीलावती.djvu/७९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न्यायनये तु प्रत्यक्ष एवं समवायः जातिव्यक्तिभ्यां सह स्वरूपेणानुभूयते । अननुभव गौग्यमिति गोत्वपुरोवर्तिन्त्रयोः सामानाधिकरण्यवोधो न स्यात् । यो समानेनाधिकरणेन सम्बन्ध: सामानाधिकरण्यम् अयमयं गोत्वं च गोत्वमिति व्यधिकरणोऽनुभवः स्यात् । गोत्वसमवायीति सामाना- धिकरण्यमत्ययवद्विव सम्बन्धावभासं गोत्वसम्बन्धीत प्रत्ययो ७१८ न्यायलीलावतीकण्टाभरणम् समानतन्त्रसिद्धान्तं दर्शयति न्यायेति । जात्यादिविशिष्टधीः सम्ब न्धविषया विशिष्टवीत्वात दण्डीतिधीवत् | अभावादिविशिष्टवुद्धरपि स्वरूपसम्बन्धविषयत्वेन न व्यभिचारः । न च तत्रापि स एवास्त्विति वाच्यम् | लाघवादकस्यैव सिद्धे: स्वरूपाणान्त्वनन्तत्वादिति भावः । स्वरूपेणेति । न विशेषणत्वेन नवा विशेष्यत्वेनेत्यर्थः । समवायप्रत्यक्षे प्रमाणमाइ अननुभव इति । गोत्वसम्बन्धीति । अयं गौरिति प्रत्ययोऽपी. न्यायलीलावतीप्रकाशः वाय इत्याहुः | तश | श्यामं रूपं नं रक्तमुत्पन्नमित्यबाधितानुभवात् समवायस्यो त्पत्तिविशेषानुल्लेखाच, तन्मतेऽपि तस्यातीन्द्रियत्वात्, अन्यथा. वयविज्ञानगन्धादयो नित्याः समवायस्योत्पत्तिविनाशाविति स्यात् । न्यायनये विति । गुणक्रियाजातिविशिष्टबुद्धयां विशेषणविशेष्य. सम्बन्धविषयाः विशिष्टवुद्धित्वात् दण्डीतिविशिष्टबुद्धिषत् | न च व्यभिचारः, अभावादिविाशावुद्धेरपि स्वरूप सम्बन्धविषयत्वात् । न चात्रापि तेनैवार्थान्तरं, यतो गुणक्रियाजातिबुद्धीनां पक्षधर्मताबला. त्सम्बन्धः सिद्ध्यल्लाघवादेक एव सिद्ध्यति, स एव समवायः, नतु स्वरूपसम्बन्धः तत्स्वरूपाणामननुगतत्वादित्युक्तमिति भावः । न्यायलीलावती प्रकाशविवृतिः दतिया ज्ञात एवेति । तन्मतेपीति । तथाच साक्षात्कारिरूपायामुत्पाद विनाशप्रतीतो समवायविषयकत्व कल्पनमयुक्तमिति भावः । केन रूपेण भासत इत्याद्यनन्तरं क्वचिदनुभव इति मूलप्रतीक.