पृष्ठम्:न्यायलीलावती.djvu/८

एतत् पृष्ठम् परिष्कृतम् अस्ति
भूमिका ।


न्यो वेत्यनिवर्यैवास्माभिर्व्योमवतीसुक्तिसेतुव्याख्यानत्रयसमलङ्कृतस्य काशीस्थ चौखम्बा संस्कृत पुस्तकमालायां प्रकाशितस्य प्रशस्तपादभाष्यस्य भूमिकायां लीलादत्यपि मुद्वितेति अतथ्यमेव प्रलपितम् यतो कन्दलीव्याख्यातृभी राजशेखरजैनाचार्यैः पञ्जिकाख्यायां न्यायकन्दलाव्याख्यायां वक्ष्यमाणप्रकारेण भाष्यटीकाकाराणां क्रमोऽवधारितः-

 'इह किल पूर्वमजिह्मब्रह्माभ्यासदूरीकृतप्रमादाय मुनये कणादाय स्वयमीश्वर उलकरूपधारी प्रत्यक्षीभूय द्रव्यगुणकर्म सामान्य विशेषसमवायलक्षणं पदार्थषटकमुपादिदेश, तदनु स महर्षिर्लोकानुकम्पया षट्पदार्थ रहस्यप्रपञ्चनपराणि सूत्राणि रचयाञ्चकार । तेषु सूत्रेषु प्रशस्तदेवकरो भाष्यं सकृद्गुणनमात्रेण महोग्रदष्ट कविषापहारद्वष्टलोकोत्तरवैभवं चकार । तत्र चतस्त्रो वृत्तयो निर्वृत्ताः । एकां व्योमचतीनाम्नीं वृत्ति व्योमशिवाचार्यो जुगुम्फ, द्वितीयां तु न्यायकन्दल्यभिधानां श्रीधराचार्यः सन्ददर्भ, तृतीयां किरणावलीनाम्नीमुदयनाचार्यस्ततान, चतुर्थी तु लीलावतीतिख्यातां श्रीवत्साचार्यो बबन्ध । चतस्त्रोऽपि गम्भीरार्थास्तत्रेमां न्यायकन्दलीं प्रारभमाणः श्रीधरदेव' इत्यादिना । एतेन श्रीवत्सकृता लीलावती वल्लभाचार्य विरचितम्यायलीलावतीतो मिन्नाऽद्ययावत् केनाप्यनुपलब्धापि अवश्यं दार्शनिकसृष्टौ वर्तत इत्यवधार्यते । एवञ्चार्य प्रकृतनिबन्धो न भाष्यव्याख्यारूपः कित्वाचार्य वल्लभैः स्वप्रतिभया स्वातन्त्र्येण वैशेषिकराद्धान्त सिद्धपदार्थ परीक्षणार्थं स्वमताविष्करणार्थज्ञान्यदेशेविकनिबन्धेभ्यो विलक्षणो नूतनशैल्या निबद्ध इति विद्वांसस्तत्पठनेन स्वयं निर्धारयिष्यन्ति । वयमपि यथामति तद्विषयमवलम्ब्यानुपदमेव विवेचयिष्यामः ।

 एष च मिथिलादेशजातो विद्वद्वरेण्यः लीलावस्यां किरणावलीकर्तुर्महानैयायिकस्य श्रीमदुदयनाचार्यस्य नामोल्लेखात दशमशताब्यां वर्तमानात ततोऽर्वाचीनः, द्वादशशताब्द्यारम्भे कृतस्थितिना वर्धमानोपाध्यायेन व्याख्यातत्वाच ततः प्राचीनो सोष्टीय ९८४ तथा ११७८ वर्षयोर्मध्य आसीत् । उदयनाचार्यादीनां मैथिलेयानां नैयायिकानां मिथिलोद्भवत्वेन तन्त्र न्यायशास्त्रस्य बाहुल्येन प्रचाराव कदाचिठ्ठलभाचार्यस्यापि मैथिलत्वं सम्भाव्येत । वर्धमानोपाध्यायकृतो न्याली० प्रकाशः (१) रघुनाथ शिरोमणिप्रणीतो न्या० ली० दीधिति: (२) शंकरमिश्रविरचितं कण्ठाभरण (३) चेति टीकात्रयमेवास्या न्यायलीलावत्या इति मोहमच्यां सुद्रिते. मूळमात्र न्यायलीलावतीनिबन्धप्रस्तावे मङ्गेशरामकृष्ण तैलङ्गप्रवरा आहुः । तन्मन्दम् । हृदयनाचार्यादर्वाचीनत्वस्य वर्धमानोपाध्यायात्प्राचीनत्वस्य चापाततोऽवधारयितुं शक्यत्वेऽपि निर्दिष्ट एव समये प्रबालप्रमाणाभावात मैथिखेयत्वे प्रमाणसनावात्र टीकाससकसखेन वायुतत्वादिति ब्रूमः ।