पृष्ठम्:न्यायलीलावती.djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

कत्वं सम्भाव्य दूषयितुं विकल्पयति-प्रतीतं न वेति । अन्ययोगव्यवच्छेदो विशेष्यादन्यत्र विशेषणयोगव्यवच्छेदः यथा पार्थ एव धनुर्द्धर इत्यत्र भीमादौ धनुर्द्धरत्वयोगो व्यवच्छिद्यते। एवं च द्रव्यादिषड्भ्यो विशेष्येभ्योऽन्यद्यदि प्रतीतं तदा तत्र पदार्थत्वव्यवच्छेदोऽनुपपन्नः। पदार्थत्वव्यवच्छेदो हि पदार्थत्वव्यवच्छित्तिप्रत्ययः स चाधिकरण. ज्ञानतन्त्रः सद्भ्यामभावो निरूप्यत इति सिद्धान्तात् , अधिकरणं च षड्भिन्नमप्रतीतमेवेत्याह-सुप्रतीतं चेति[१] । व्यवच्छेद्यं व्यवच्छेदकर्म पदार्थान्तरमेवावधारणव्यवच्छेद्यं तद्व्यवच्छेदश्च पदार्थव्यवच्छेदमुखेनेत्यन्यदेतत् । तथा च व्यवच्छेद्यं व्यवच्छेदाधिकरणमित्यपव्याख्यानम् । तथा च षडेव पदार्था इत्यवधारणेन व्यवच्छद्यः सप्तमपदार्थः स चेन्न प्रतीतस्तदा तत्र पदार्थत्वव्यवच्छेदो न शक्य इत्यर्थः । यद्वा अन्ययोगव्यवच्छेद इत्यत्रान्यस्य विशेषणेन सह योगस्य सम्बन्धस्य व्यवच्छेदः स च पदार्थ एवेत्यत्रान्यो भीमादिः प्रसिद्धस्तस्य विशेषणयोगो व्यवच्छिद्यत इति युक्तं प्रकृते तु न तथेत्यर्थः ।

न्यायलीलावतीप्रकाशविवृतिः

तेः। समभिव्याहार इति । न च तात्पर्यस्य पुरुषेच्छाधीनतया विशेषणसङ्गतैवकारादपि क्वचिदन्ययोगव्यवच्छेदप्रतीत्यापत्तिरिति वाच्यम्, अनादितात्पर्यस्यैवात्र नियामकत्वात्। यदि प्रोत्तरस्थात्वेनेव विशेषण. सङ्गतैवकारत्वादिना शक्तिस्तदा शङ्कैव नोदेतीति[२] ध्येयम् । मिश्रास्तु व्यवच्छेदमात्रे शक्तिर्लाघवात् अयोगादिलाभस्तु पाण्डरादिपदाल्लक्षणया स्वतन्त्रोपस्थितये प्रतियोगित्वोपस्थितये च लक्षणायास्त्वयापि तत्र स्वीकारात् । अत एव पदार्थैकदेशान्वयप्रसङ्गोऽपि न, अत एवौत्सर्गिको विशेष्यान्वयोऽपि समर्थितो भवति । एवं च पाचकादिपदे रूढिस्वीकारोऽपि सङ्गच्छते । अन्यथा कृतियोग्यताशक्तप्रत्ययपदार्थैकदेशकृत्यन्वयस्य तत्र[३] बाधात् । अतएव च सन्ध्याकालोऽकरणे विशेष्येऽन्वेति, न तु करणे विशेषण इत्यपि सङ्गच्छते। अन्यथा तत्रापि विशेषणान्वयाविरोधात् । न च स एवायमित्यत्र सर्वनाम्नि लक्षणाया अस्वीकारादयं कल्पो नोचित[४] इति वाच्यम् , तत्रभेदानुभवेन [५]त्वयाप्येवकारस्य शक्त्यन्तरस्वीकारादिति वदन्ति। अत्र केचित् । पाण्डरपदस्यायोगलक्षणायां पाण्डरत्वमेव न प्रतीयत


  1. अप्रतीतं चदिति साधुः पाठः।
  2. शङ्कापि नेति पाठान्तरम् ।
  3. तत्राबाधादिति पाठान्तरम् ।
  4. न सङ्गच्छते इति पाठान्तरम् ।
  5. अत्राभेदानुभववेत्यन्यः पाह।