पृष्ठम्:न्यायलीलावती.djvu/८०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२६ म्याबलीलावती खापि समवायस्य निरूपणात् तस्यापि तदीयत्वप्रसङ्गः । तेन सह समवायस्य निरूपणनियमो नास्तीति चेत् । न तर्हि गोव्य- क्यापि (१) निरूपणात् । तस्मादनासादितगोत्वसमवायव्यक्तिभेद- मखण्ड मसाधारणं गौरिति प्रत्ययगोचरः (२) । तदेव च देशकाला- दिभेदेनानुगते गौरितिप्रत्यये भासमानं भिन्नमभिन्नं चाऽवभासत इति प्रत्यक्षसिद्धम् । न्यायलीलावतीकण्ठाभरणम् कत्वादिति भावः | तर्दायत्वप्रसंगो-गोवैशिष्ट्यत्वप्रसंगः । तेनेति । गो- व्यक्तिनिष्ठेनेत्यर्थः । प्रष्टा स्वाभिमतमुपसंहारव्याजेनाह तस्मादिति । अ नासादितो गोत्वसमवायव्यक्तीनां मेदो येन तत्तथा, अखण्डमनेका घटितम्, असाधारणमनेकासम्बन्धि | तर्हि एक एव पिण्डस्तथानु. भूयतेत्यत आइ तदेव चेति | स्वलक्षणमेवेत्यर्थः । भिन्नमेव सदभिन्नमव- भासते इति । एकोऽपि समवायो निरूपकभेदादू भिन्न इव याभ्यां निरू प्यते तयोरेवान्योन्यमुपरक्तप्रत्ययं जनयन् प्रत्यक्षेण विषयीक्रियत इत्यर्थः । न्यायलीलावतीप्रकाशः तस्याः गोव्यकेः रूपेण शुक्लादिनेत्यर्थः । तस्यापीति | शुक्लादे रू. पस्यापि तदीयत्वप्रसङ्गो गोत्ववैशिष्ट्यप्रसङ्गः, तथा च गोव्यक्तावि- व तद्रूपेऽपि गौरितिप्रत्ययापत्तिरित्यर्थः । तेनेति । गोव्यक्तिरूपेणेत्यर्थः। अनासादितेति । न आसादितो गोत्वव्यक्तिसमवायानां भेदो येन ततथा, अखण्डमनेकाघटितम्, असाधारणमनेकासम्बन्धि । नन्वेवं गौरिति- प्रतीतिविषयस्य भेदो न भासेत एकस्यैव धर्मिस्वरूपस्य सर्वत्र गौ- रितिप्रतीतिविषयत्वादित्यत आइ तदेव चेति । देशकालात्मकोपाधि- निबन्धनो भेदाभेदानुभव इत्यर्थः । न्यायलीलावती प्रकाशविश्वतिः विभागः। तथा च गोव्यताविवेति । सास्नादिमद्रूपविशेष्यस्य तदभिव्यञ्ज- कत्वादिति भावः | अनेकाघटितमिति । तथाच नोपाधिरूपमनेकासम्ब- (१) पि व्यबेनापि निरूपणादिति प्रा०पू० पाठः (२) विषयः -- प्रा० पु० पाठः ।