पृष्ठम्:न्यायलीलावती.djvu/८०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२८ म्यायलीलावती तु व्यक्तेरभिन्नमेवानुभूनमिति । अथ न भेदेन नाप्य भेदेन किन्तु स्वरूपेणानुभुयत इति मतम् । न । सामान्यस्या (१) नुवृत्त तावभासप्रसङ्गात् | मैवम् । अनेकव्यक्तिसमवायिश्वं दि सामा न्यस्यानुवृत्तत्वम् | तेन तदप्रतीतावपि जातिस्वरूपावासोपप चेः । यदि भिन्ना जातिः स्यात् व्यक्त्यसम्बद्धापि प्रतीयेतेति चेत् । न । नित्यसम्बन्चवलेनैव तन्निरामात् (२) । अथ समवायरहि- तत्वमभिन्नत्वम् | तन्न | समवायस्य साधितत्वात् | स्वरूपभेदे- ऽपि अन्योन्याभावरहितत्वमभिमत्वमिति चेन्न ! इदमिदं न भव- . न्याय लीलावतीकण्ठाभरणम् कपिण्डासाधारणरूपेण | स्वरूपेणेति | स्वरूपं यदस्या जातित्वं तेने- त्यर्थ: । जातिश्वरूपं भासते न तु तद्धर्म्मानुवृत्तित्वादि रूपेणेत्याह अनेकेति। नित्यसम्बन्धेति । अयुतसिद्ध्या न पृथग्भानमित्यर्थः । इदमिदमिति । 'गोत्वं न व्यक्तिरिति प्रतीतेरन्योन्याभावविषयत्वादित्यर्थः । ब्यक्त्य. न्यायलीलावती प्रकाशः यदि जातिभि स्यात् तदा व्यावृत्तत्वेन भानं न स्यात् अनु. गतधर्मताभावत्वात्तस्या इति व्यावृत्तत्वेन भानार्थ जातिव्यक्त्तमोर- भेदो मन्तव्य इत्यर्थः । तथा चाखण्डमेव गौरितिप्रत्ययस्य विषय इति भावः | यदि जातिः स्वरूपेणानुभूयते तर्हि स्वरूपस्यानुवृत्तत्वा. ज्जातिरपि तथैव भासेत, तथ न प्रथमतः सम्भवतीत्याह सामान्येति। सामान्य जातेः स्वरूपं प्रथममवभासत एव सामान्यरूपत्वं च स. मानासु व्यक्तिषु भासमानासु भासत इत्याह अनेकव्यक्तीति । जाति- व्यक्त्योरभेदे सति अखण्डमेव भासत इति मनसिकृत्य समवाधनि. रूपणप्रस्ताव एवाह यदि मिन्नेति । अथेति । घटपटयो समवाय राहित्ये • पि नाभेदः तयोर्विशेषणावशेष्यभावाभावात् जातिव्यक्त्योश्च तत्सा. द्भावादिति भावः | समवायस्येति । पूर्वोक्तप्रमाणादित्यर्थः । मनु जाति- 'व्यक्त्योः स्वरूपभेदेप्यन्योन्याभावविरहादभेदः स्यादित्याह स्वरूपभेद- पैाति । इदमिदामेति । इदमिदं न भवतीतिप्रतीतिबलादन्योन्याभावस्य (१) अनुवृत्तत्वेना नुवृत्ततेति मु० पु० पाठः । (२) तनियमादिति मु० पु० पाठः ।